Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1134
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
स꣢ वा꣣यु꣡मिन्द्र꣢꣯म꣣श्वि꣡ना꣢ सा꣣कं꣡ मदे꣢꣯न गच्छति । र꣢णा꣣ यो꣡ अ꣢स्य꣣ ध꣡र्म꣢णा ॥११३४॥
स्वर सहित पद पाठसः । वा꣣यु꣢म् । इ꣡न्द्र꣢꣯म् । अ꣣श्वि꣡ना꣢ । सा꣣क꣢म् । म꣡दे꣢꣯न । ग꣣च्छति । र꣡ण꣢꣯ । यः । अ꣣स्य । ध꣡र्म꣢꣯णा ॥११३४॥
स्वर रहित मन्त्र
स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मणा ॥११३४॥
स्वर रहित पद पाठ
सः । वायुम् । इन्द्रम् । अश्विना । साकम् । मदेन । गच्छति । रण । यः । अस्य । धर्मणा ॥११३४॥
सामवेद - मन्त्र संख्या : 1134
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 7
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 7
Acknowledgment
विषयः - अथ पुनर्गुरुशिष्यविषय उच्यते ॥
पदार्थः -
(यः) शिष्यः (अस्य) सोमस्य विद्याप्रेरकस्य आचार्यस्य (धर्मणा) नियमेन (रण) रणति चलति। [रण शब्दार्थः गत्यर्थश्च, भ्वादिः। अत्र तिब्लोपश्छान्दसः।] (सः) शिष्यः (मदेन साकम्) उत्साहेन सह (वायुम्) प्राणविद्यां पवनविद्यां वा, (इन्द्रम्) आत्मविद्यां विद्युद्विद्यां वा, (अश्विना) मनोबुद्धिविद्यां सूर्यचन्द्रविद्यां वा (गच्छति) प्राप्नोति ॥७॥
भावार्थः - शिष्यैः समर्पणभावेन गुरूणां संरक्षणे निवसद्भिः सर्वा विद्या अधीत्य वायुविद्युदादिप्रयोगेण यानयन्त्रादीनि चालनीयानि सर्वं भूगोलखगोलज्ञानं प्राप्तव्यमाध्यात्मिक्यः सिद्धयश्च सम्पादनीयाः ॥७॥
टिप्पणीः -
१. ऋ० ९।७।७, ‘धर्म॑णा’ इत्यत्र धर्मभिः।