Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1135
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

आ꣢ मि꣣त्रे꣡ वरु꣢꣯णे꣣ भ꣢गे꣣ म꣡धोः꣢ पवन्त ऊ꣣र्म꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ श꣡क्म꣢भिः ॥११३५॥

स्वर सहित पद पाठ

आ । मि꣣त्रे꣢ । मि꣣ । त्रे꣢ । व꣡रु꣢꣯णे । भ꣡गे꣢꣯ । म꣡धोः꣢꣯ । प꣣वन्ते । ऊर्म꣡यः꣢ । वि꣣दानाः꣢ । अ꣣स्य । श꣡क्म꣢꣯भिः ॥११३५॥


स्वर रहित मन्त्र

आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः ॥११३५॥


स्वर रहित पद पाठ

आ । मित्रे । मि । त्रे । वरुणे । भगे । मधोः । पवन्ते । ऊर्मयः । विदानाः । अस्य । शक्मभिः ॥११३५॥

सामवेद - मन्त्र संख्या : 1135
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 8
Acknowledgment

पदार्थः -
(मधोः) मधुरस्य ज्ञानरसस्य ब्रह्मानन्दरसस्य वा (ऊर्मयः) तरङ्गा (मित्रे) मित्रभूते जीवात्मनि, (वरुणे) दोषनिवारके मनसि, (भगे) सेवनीये प्राणे च (आ पवन्ते) आगच्छन्ति। (विदानाः) तान् तरङ्गान् प्राप्नुवन्तो जनाः (अस्य) मधुरस्य ज्ञानस्य ब्रह्मानन्दस्य वा (शक्मभिः२) सामर्थ्यैः, युज्यन्ते इति शेषः। [शक्लृ शक्तौ ‘अशिशकिभ्यां छन्दसि’ उ० ४।१४८ इति मनिन्।] ॥८॥

भावार्थः - ज्ञानस्य ब्रह्मानन्दस्य वा तरङ्गैः शरीररथं सर्वमपि मनोबुद्धिप्राणेन्द्रियादिकं रोम रोम च तरङ्गायते ॥८॥

इस भाष्य को एडिट करें
Top