Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1136
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

अ꣣स्म꣡भ्य꣢ꣳ रोदसी र꣣यिं꣢꣫ मध्वो꣣ वा꣡ज꣢स्य सा꣣त꣡ये꣢ । श्र꣢वो꣣ व꣡सू꣢नि꣣ स꣡ञ्जि꣢तम् ॥११३६॥

स्वर सहित पद पाठ

अ꣣स्म꣡भ्य꣢म् । रो꣣दसीइ꣡ति꣢ । र꣣यि꣢म् । म꣡ध्वः꣢꣯ । वा꣡ज꣢꣯स्य । सा꣣त꣡ये꣢ । श्र꣡वः꣢꣯ । व꣡सू꣢꣯नि । सम् । जि꣣तम् ॥११३६॥


स्वर रहित मन्त्र

अस्मभ्यꣳ रोदसी रयिं मध्वो वाजस्य सातये । श्रवो वसूनि सञ्जितम् ॥११३६॥


स्वर रहित पद पाठ

अस्मभ्यम् । रोदसीइति । रयिम् । मध्वः । वाजस्य । सातये । श्रवः । वसूनि । सम् । जितम् ॥११३६॥

सामवेद - मन्त्र संख्या : 1136
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 9
Acknowledgment

पदार्थः -
हे (रोदसी) आत्ममनसी ! युवाम् (मध्वः) मधुरस्य सोमस्य ज्ञानरसस्य आनन्दरसस्य चेत्यर्थः (सातये) प्राप्तये (अस्मभ्यम्) नः (रयिम्) भौतिकं रजतहिरण्यादिकं धनम्, (श्रवः२) यशः शास्त्रश्रवणं च, (वसूनि) आध्यात्मिकानि धारणाध्यानसमाधियोगसिद्धिविवेकख्यातिप्रभृतानि धनानि च (संजितम्) संजयतम् ॥९॥

भावार्थः - ज्ञाने ब्रह्मानन्दे वा मनो निवेशयितुं पूर्वं धनधर्मादीनामुपार्जनमपेक्ष्यते ॥९॥

इस भाष्य को एडिट करें
Top