Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1171
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - पुर उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
12
त्वा꣡ꣳ शु꣢ष्मिन्पुरुहूत वाज꣣य꣢न्त꣣मु꣡प꣢ ब्रुवे सहस्कृत । स꣡ नो꣢ रास्व सु꣣वी꣡र्य꣢म् ॥११७१॥
स्वर सहित पद पाठत्वा꣢म् । शु꣣ष्मिन् । पुरुहूत । पुरु । हूत । वाजय꣡न्त꣢म् । उ꣡प꣢꣯ । ब्रु꣣वे । सहस्कृत । सहः । कृत । सः꣢ । नः꣣ । रास्व । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११७१॥
स्वर रहित मन्त्र
त्वाꣳ शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत । स नो रास्व सुवीर्यम् ॥११७१॥
स्वर रहित पद पाठ
त्वाम् । शुष्मिन् । पुरुहूत । पुरु । हूत । वाजयन्तम् । उप । ब्रुवे । सहस्कृत । सहः । कृत । सः । नः । रास्व । सुवीर्यम् । सु । वीर्यम् ॥११७१॥
सामवेद - मन्त्र संख्या : 1171
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनः परमात्मा प्रार्थ्यते।
पदार्थः -
हे (शुष्मिन्) बलवन्, (पुरुहूत) बहुभिः आहूत, (सहस्कृत) बलप्रद जगदीश्वर ! (वाजयन्तं त्वाम्) बलं परेषां कामयमानम् त्वाम्, अहम् (उपब्रुवे) प्रार्थये। (सः) असौ त्वम् (नः) अस्मभ्यम् (सुवीर्यम्) सुबलोपेतं सन्तानम् (रास्व) प्रयच्छ ॥३॥
भावार्थः - वयमस्माकं सन्तानाश्च बलवन्तो भूत्वा शत्रून् पराजित्य स्वकीयं चक्रवर्तिराज्यं संस्थाप्य धर्मेण प्रजाः पालयेमहि ॥३॥
टिप्पणीः -
१. ऋ० ८।९८।१२, अथ० २०।१०८।३, उभयत्र ‘सहस्कृत’ इत्यत्र ‘शतक्रतो’।