Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1172
ऋषिः - अत्रिर्भौमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

य꣡दि꣢न्द्र चित्र म इ꣣ह꣢꣫ नास्ति꣣ त्वा꣡दा꣢तमद्रिवः । रा꣢ध꣣स्त꣡न्नो꣢ विदद्वस उभयाह꣣स्त्या꣡ भ꣢र ॥११७२॥

स्वर सहित पद पाठ

य꣢त् । इ꣣न्द्र । चित्र । मे । इह꣢ । न । अ꣡स्ति꣢꣯ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । अद्रिवः । अ । द्रिवः । रा꣡धः꣢꣯ । तत् । नः꣣ । विदद्वसो । विदत् । वसो । उभयाहस्ति । आ । भर ॥११७२॥


स्वर रहित मन्त्र

यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥११७२॥


स्वर रहित पद पाठ

यत् । इन्द्र । चित्र । मे । इह । न । अस्ति । त्वादातम् । त्वा । दातम् । अद्रिवः । अ । द्रिवः । राधः । तत् । नः । विदद्वसो । विदत् । वसो । उभयाहस्ति । आ । भर ॥११७२॥

सामवेद - मन्त्र संख्या : 1172
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (चित्र) अद्भुत, (अद्रिवः) अविदीर्णगुण। [न केनापि दीर्यते यस्तत्सम्बुद्धौ।] (विदद्वसो) लब्धधन (इन्द्र) जगदीश आचार्य वा ! (त्वादातम्) त्वया शोधितम्। [दातम् दैप् शोधने, निष्ठा।] (यत् राधः) यद् आत्मबलधर्मविद्यादिधनम् (मे) मम (इह) अत्र (न अस्ति) न विद्यते, (तत्) धनम् त्वम् (उभयाहस्ति) उभाभ्यां हस्ताभ्यां यथा कस्मैचिद् दीयते तथा (नः) अस्मभ्यम् (आ भर) आहर ॥१॥२ यास्काचार्येण मन्त्रोऽयं निरुक्ते ४।४ इत्यत्र व्याख्यातः।

भावार्थः - परमेशस्याचार्यस्य च कृपया शुद्धस्य भौतिकस्य च धनस्य वयमधिपतयः स्याम ॥१॥ परमेश्वर और आचार्य की कृपा से शुद्ध दिव्य और भौतिक धन के हम अधिपति हो जाएँ ॥१॥

इस भाष्य को एडिट करें
Top