Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1173
ऋषिः - अत्रिर्भौमः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
4
य꣡न्मन्य꣢꣯से꣣ व꣡रे꣢ण्य꣣मि꣡न्द्र꣢ द्यु꣣क्षं꣡ तदा भ꣢꣯र । वि꣣द्या꣢म꣣ त꣡स्य꣢ ते व꣣य꣡मकू꣢꣯पारस्य दा꣣व꣡नः꣢ ॥११७३॥
स्वर सहित पद पाठय꣢त् । म꣡न्य꣢꣯से । व꣡रे꣢꣯ण्यम् । इ꣡न्द्र꣢꣯ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । तत् । आ । भ꣣र । विद्या꣡म꣢ । त꣡स्य꣢꣯ । ते꣣ । वय꣢म् । अ꣡कू꣢꣯पारस्य । दावनः ॥११७३॥
स्वर रहित मन्त्र
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर । विद्याम तस्य ते वयमकूपारस्य दावनः ॥११७३॥
स्वर रहित पद पाठ
यत् । मन्यसे । वरेण्यम् । इन्द्र । द्युक्षम् । द्यु । क्षम् । तत् । आ । भर । विद्याम । तस्य । ते । वयम् । अकूपारस्य । दावनः ॥११७३॥
सामवेद - मन्त्र संख्या : 1173
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनः परमेश्वराचार्ययोर्विषयमाह।
पदार्थः -
हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर आचार्य वा ! (यत्) यत् त्वम् (वरेण्यम्) वरितुं ग्रहीतुमर्हम् (मन्यसे) जानासि (तत् द्युक्षम्) धर्मविद्याप्रकाशनिवासकं स्वकीयं दानम्। [द्यां प्रकाशं क्षाययति निवासयति यत् तादृशम्।] (आ भर) अस्मान् प्रापय। (ते) तव (अकूपारस्य) अकुत्सितः पारः पूरणं संग्रहः यस्य तादृशस्य (तस्य दावनः) दानस्य।[द्वितीयार्थे षष्ठी।] (वयम्) त्वदुपासकाः (विद्याम)लभेमहि। [‘विद्याम तस्य ते वयमकुपरणस्य दानस्य’इति निरुक्तम्। ४।१८] ॥२॥२
भावार्थः - परमेश्वरस्याचार्यस्य च यत् सद्गुणविद्याधर्मसदाचारादिदानमस्ति तत् प्राप्य वयं स्वात्मानमुन्नयेम ॥२॥
टिप्पणीः -
१. ऋ० ५।३९।२, ‘दा॒वने॑’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्।