Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1186
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
वृ꣣ष्टिं꣢ दि꣣वः꣡ परि꣢꣯ स्रव द्यु꣣म्नं꣡ पृ꣢थि꣣व्या꣡ अधि꣢꣯ । स꣡हो꣢ नः सोम पृ꣣त्सु꣡ धाः꣢ ॥११८६॥
स्वर सहित पद पाठवृ꣣ष्टि꣢म् । दि꣣वः꣡ । प꣡रि꣢꣯ । स्र꣣व । द्युम्न꣢म् । पृ꣣थिव्याः꣢ । अ꣡धि꣢꣯ । स꣡हः꣢꣯ । नः꣣ । सोम । पुत्सु꣢ । धाः꣢ ॥११८६॥
स्वर रहित मन्त्र
वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि । सहो नः सोम पृत्सु धाः ॥११८६॥
स्वर रहित पद पाठ
वृष्टिम् । दिवः । परि । स्रव । द्युम्नम् । पृथिव्याः । अधि । सहः । नः । सोम । पुत्सु । धाः ॥११८६॥
सामवेद - मन्त्र संख्या : 1186
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 9
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 9
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
हे (सोम) सर्वसुखप्रेरक परमात्मन् ! त्वम् (दिवः) दिव्यात् आनन्दमयकोशात् (वृष्टिम्) आनन्दवर्षाम् (परिस्रव) परिक्षर। (पृथिव्याः अधि) पृथिव्याम्। [अधि सप्तम्यर्थानुवादः।] (द्युम्नम्) यशः तेजः च (परिस्रव) परिक्षर। (नः) अस्माकम् (पृत्सु)सेनासु। [पदादिषु मांसपृत्स्नूनामुपसंख्यानम्। अ० ६।१।६३ इति वार्तिकेन पृतनाशब्दस्य पृदादेशः।] (सहः) साहसं बलं च (धाः) धेहि ॥९॥
भावार्थः - जगदीश्वरो यथाऽन्तरिक्षाद् जलधारां वर्षति तथा स्वकीयादानन्दकोशादानन्दधारा वर्षेत्। यथा स पृथिव्यां सुवर्णादिधनं दधाति तथा राष्ट्रे कीर्तिं तेजस्वितां च दधातु। यथा स राष्ट्रस्य सेनासु साहसं प्रेरयति तथाऽस्माकं सत्याहिंसादिदिव्यसेनासु बलं वेगं च निदध्यात् ॥९॥ अस्मिन् खण्डे परमात्मन आविर्भावस्य, तद्गुणकर्मणां, ब्रह्मानन्दरसस्य, जीवात्मनश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
टिप्पणीः -
१. ऋ० ९।८।८।