Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1192
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
ते꣡ नः꣢ सह꣣स्रि꣡ण꣢ꣳ र꣣यिं꣡ पव꣢꣯न्ता꣣मा꣢ सु꣣वी꣡र्य꣢म् । स्वा꣣ना꣢ दे꣣वा꣢स꣣ इ꣡न्द꣢वः ॥११९२॥
स्वर सहित पद पाठते꣢ । नः꣣ । सहस्रि꣡ण꣢म् । र꣣यि꣢म् । प꣡व꣢꣯न्ताम् । आ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । स्वा꣣नाः꣢ । दे꣣वा꣡सः꣢ । इ꣡न्द꣢꣯वः ॥११९२॥
स्वर रहित मन्त्र
ते नः सहस्रिणꣳ रयिं पवन्तामा सुवीर्यम् । स्वाना देवास इन्दवः ॥११९२॥
स्वर रहित पद पाठ
ते । नः । सहस्रिणम् । रयिम् । पवन्ताम् । आ । सुवीर्यम् । सु । वीर्यम् । स्वानाः । देवासः । इन्दवः ॥११९२॥
सामवेद - मन्त्र संख्या : 1192
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
विषयः - अथानन्दरसाः किं कुर्वन्त्वित्याह।
पदार्थः -
(ते) पूर्वोक्ताः, (स्वानाः) अभिषूयमाणाः, (देवासः) स्वयं दीप्ताः अन्येषां प्रदीपकाश्च (इन्दवः) रसक्लेदकाः सोमाः परमानन्दरसाः (नः) अस्मभ्यम् (सहस्रिणम्) सहस्रसंख्यावन्तम्, (सुवीर्यम्) सुवीर्योपेतम् (रयिम्) अहिंसासत्यभूतदयान्यायदाक्षिण्यादिकं धनम् (आ पवन्ताम्) आनयन्तु ॥६॥
भावार्थः - परमात्मोपासनया प्राप्यमाणाः परमानन्दा अनन्तां दिव्यगुणसम्पत्तिं लम्भयन्ते ॥६॥
टिप्पणीः -
१. ऋ० ९।१३।५, ‘सु॒वा॒ना’ इति पाठः।