Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1193
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

वा꣣श्रा꣡ अ꣢र्ष꣣न्ती꣡न्द꣢वो꣣ऽभि꣢ व꣣त्सं꣢꣫ न मा꣣त꣡रः꣢ । द꣣धन्विरे꣡ गभ꣢꣯स्त्योः ॥११९३॥

स्वर सहित पद पाठ

वा꣣श्राः꣢ । अ꣣र्षन्ति । इ꣡न्द꣢꣯वः । अ꣣भि꣢ । व꣣त्स꣢म् । न । मा꣣त꣡रः꣢ । द꣣धन्विरे꣢ । ग꣡भ꣢꣯स्त्योः ॥११९३॥


स्वर रहित मन्त्र

वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः । दधन्विरे गभस्त्योः ॥११९३॥


स्वर रहित पद पाठ

वाश्राः । अर्षन्ति । इन्दवः । अभि । वत्सम् । न । मातरः । दधन्विरे । गभस्त्योः ॥११९३॥

सामवेद - मन्त्र संख्या : 1193
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 7
Acknowledgment

पदार्थः -
(वाश्राः) रम्भायमाणाः (मातरः) धेनवः (वत्सं न) वत्सं प्रति यथा गच्छन्ति तथा (वाश्राः) उपदेष्टारः [वाश्यन्ते शब्दायन्ते उपदिशन्तीति वाश्राः। वाशृ शब्दे, दिवादिः। ‘स्फायितञ्चि०’ उ० २।१३ इत्यनेन रक् प्रत्ययः।] (इन्दवः) क्लेदकाः ब्रह्मानन्दरसाः (वत्सम् अभि) प्रियम् उपासकं प्रति (अर्षन्ति) गच्छन्ति, किञ्च (गभस्त्योः) बाह्वोः [गभस्ती इति बाहुनाम। निघं० २।४।] (दधन्विरे) ध्रियन्ते। तेषां प्राप्तौ उपासकः बाहुभ्यां कर्मपरायणो जायते इत्यर्थः ॥७॥ अत्र श्लिष्टोपमालङ्कारः ॥७॥

भावार्थः - ब्रह्मानन्दा अपि सत्कर्माणि विना न शोभन्ते ॥७॥

इस भाष्य को एडिट करें
Top