Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1213
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣पघ्न꣡न्प꣢वते꣣ मृ꣢꣫धोऽप꣣ सो꣢मो꣣ अ꣡रा꣢व्णः । ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य निष्कृ꣣त꣢म् ॥१२१३॥

स्वर सहित पद पाठ

अ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वते । मृ꣡धः꣢꣯ । अ꣡प꣢꣯ । सो꣡मः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । ग꣡च्छ꣢꣯न् । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣣म् ॥१२१३॥


स्वर रहित मन्त्र

अपघ्नन्पवते मृधोऽप सोमो अराव्णः । गच्छन्निन्द्रस्य निष्कृतम् ॥१२१३॥


स्वर रहित पद पाठ

अपघ्नन् । अप । घ्नन् । पवते । मृधः । अप । सोमः । अराव्णः । अ । राव्णः । गच्छन् । इन्द्रस्य । निष्कृतम् । निः । कृतम् ॥१२१३॥

सामवेद - मन्त्र संख्या : 1213
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(सोमः) जागरितः वीररसः (इन्द्रस्य) जीवात्मनः (निष्कृतम्) संस्कृतं गृहम् मनोरूपम्। [निरित्येष समित्येतस्य स्थाने। एमीदेषां निष्कृतं जारिणीव (ऋ० १०।३४।५) इत्यपि निगमो भवति। निरु० १२।७।] (गच्छन्) व्रजन्, (मृधः) सङ्ग्रामकारिणः (अपघ्नन्) अपहिंसन्, अपि च (अराव्णः) अदानशीलान् कृपणान् शत्रून् (अप) अपघ्नन् अवहिंसन् (पवते) प्रवहति ॥१॥

भावार्थः - वीररसेनाप्लुतो मानवः सर्वानान्तरान् बाह्यांश्च शत्रूनुच्छेत्तुं प्रभवति ॥१॥

इस भाष्य को एडिट करें
Top