Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1212
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

प꣡रि꣢ णो꣣ अ꣡श्व꣢मश्व꣣वि꣡द्गोम꣢꣯दिन्दो꣣ हि꣡र꣢ण्यवत् । क्ष꣡रा꣢ सह꣣स्रि꣢णी꣣रि꣡षः꣢ ॥१२१२॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । नः꣣ । अ꣡श्व꣢꣯म् । अ꣣श्ववि꣢त् । अ꣣श्व । वि꣢त् । गो꣡म꣢꣯त् । इ꣣न्दो । हि꣡र꣢꣯ण्यवत् । क्ष꣡र꣢꣯ । स꣣हस्रि꣡णीः꣢ । इ꣡षः꣢꣯ ॥१२१२॥


स्वर रहित मन्त्र

परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् । क्षरा सहस्रिणीरिषः ॥१२१२॥


स्वर रहित पद पाठ

परि । नः । अश्वम् । अश्ववित् । अश्व । वित् । गोमत् । इन्दो । हिरण्यवत् । क्षर । सहस्रिणीः । इषः ॥१२१२॥

सामवेद - मन्त्र संख्या : 1212
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (इन्दो) सम्पद्वर्षक परमात्मन् वीर जन वा ! (अश्ववित्) अश्वानां प्राणबलनां तुरगाणां वा लम्भकः त्वम् (नः) अस्मभ्यम्, (अश्वम्) प्राणबलम् अश्वसमूहं वा (परिक्षर) परितो वर्ष। अपि च (गोमद्) वाग्बलयुक्तं धेनुयुक्तं वा, (हिरण्यवत्) ज्योतिर्युक्तं सुवर्णयुक्तं वा यथा स्यात् तथा (सहस्रिणीः) सहस्रसंख्योपेताः (इषः) अभीष्टसम्पदः (परिक्षर) परितो वर्ष ॥३॥

भावार्थः - परमेशकृपया सर्वा दिव्या भौतिक्यश्च सम्पदः प्राप्तुं शक्यन्ते। किञ्च ते वीरा भवन्ति तेषामेव सम्पदो हस्तगता जायन्ते, ते चान्यानपि ता लम्भयन्ति ॥३॥

इस भाष्य को एडिट करें
Top