Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1226
ऋषिः - उचथ्य आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

त꣢व꣣ त्य꣡ इ꣢न्दो꣣ अ꣡न्ध꣢सो दे꣣वा꣢꣫ मधो꣣꣬र्व्या꣢꣯शत । प꣡व꣢मानस्य म꣣रु꣡तः꣢ ॥१२२६॥

स्वर सहित पद पाठ

त꣡व꣢꣯ । त्ये । इ꣣न्दो । अ꣡न्ध꣢꣯सः । दे꣣वाः꣢ । म꣡धोः꣢꣯ । वि । आ꣣शत । प꣡व꣢꣯मानस्य । म꣣रु꣡तः꣢ ॥१२२६॥


स्वर रहित मन्त्र

तव त्य इन्दो अन्धसो देवा मधोर्व्याशत । पवमानस्य मरुतः ॥१२२६॥


स्वर रहित पद पाठ

तव । त्ये । इन्दो । अन्धसः । देवाः । मधोः । वि । आशत । पवमानस्य । मरुतः ॥१२२६॥

सामवेद - मन्त्र संख्या : 1226
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (इन्दो) आनन्दरसेन क्लेदक परमात्मन् ! (तव) त्वदीयस्य (मधोः) मधुरस्य, (पवमानस्य) पवित्रीकुर्वाणस्य (अन्धसः) आनन्दरसस्य। [द्वितीयार्थे षष्ठी।] (त्ये) ते (मरुतः) प्रशस्तप्राणाः (देवाः) दिव्यगुणा विद्वांसः (व्याशत) व्यश्नुवते, उपयुञ्जते। [विपूर्वः अशू व्याप्तौ, लडर्थे लुङि प्रथमपुरुषस्य बहुवचने रूपम्] ॥२॥

भावार्थः - प्राणायामादिना योगाभ्यासेन दग्धसकलकल्मषा विद्वांस एव जना ब्रह्मानन्दरसस्याधिकारिणो जायन्ते ॥२॥

इस भाष्य को एडिट करें
Top