Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1227
ऋषिः - उचथ्य आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

दि꣣वः꣢ पी꣣यू꣡ष꣢मुत्त꣣म꣢꣫ꣳ सोम꣣मि꣡न्द्रा꣢य व꣣ज्रि꣡णे꣢ । सु꣣नो꣢ता꣣ म꣡धु꣢मत्तमम् ॥१२२७॥

स्वर सहित पद पाठ

दि꣣वः꣢ । पी꣣यू꣡ष꣢म् । उ꣣त्तम꣢म् । सो꣡म꣢꣯म् । इ꣡न्द्रा꣢꣯य । व꣣ज्रि꣡णे꣢ । सु꣣नो꣡त꣢ । म꣡धु꣢꣯मत्तमम् ॥१२२७॥


स्वर रहित मन्त्र

दिवः पीयूषमुत्तमꣳ सोममिन्द्राय वज्रिणे । सुनोता मधुमत्तमम् ॥१२२७॥


स्वर रहित पद पाठ

दिवः । पीयूषम् । उत्तमम् । सोमम् । इन्द्राय । वज्रिणे । सुनोत । मधुमत्तमम् ॥१२२७॥

सामवेद - मन्त्र संख्या : 1227
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे उपासकाः ! यूयम् (दिवः) द्युतिमतः परमात्मनः सकाशात् (पीयूषम्) अमृतरूपम्, (उत्तमम्) सर्वोत्कृष्टम्, (मधुमत्तमम्) अतिशयेन मधुरम् (सोमम्) आनन्दरसम् (वज्रिणे इन्द्राय) वीराय जीवात्मने। [वीर्यं वै वज्रः। श० ७।३।१।१९।] (सुनोत) सुनुत। [तप्तनप्तनथनाश्च। अ० ७।१।४५ इति तस्य तबादेशः, पित्वात् ङित्वाभावेन गुणनिषेधो न] ॥३॥

भावार्थः - अमृतरूपस्य मधुरमधुरस्य ब्रह्मानन्दस्य महिमानं ज्ञात्वा कस्तं नाकाङ्क्षेत् ॥३॥

इस भाष्य को एडिट करें
Top