Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1233
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
4
उ꣣भ꣡य꣢ꣳ शृ꣣ण꣡व꣢च्च न꣣ इ꣡न्द्रो꣢ अ꣣र्वा꣢गि꣣दं꣡ वचः꣢꣯ । स꣣त्रा꣡च्या꣢ म꣣घ꣢वा꣣न्त्सो꣡म꣢पीतये धि꣣या꣡ शवि꣢꣯ष्ठ꣣ आ꣡ गम꣢त् ॥१२३३॥
स्वर सहित पद पाठउ꣣भ꣡य꣢म् । शृ꣣ण꣡व꣢त् । च꣣ । नः । इ꣡न्द्रः꣢꣯ । अ꣣र्वा꣢क् । इ꣣द꣢म् । व꣡चः꣢꣯ । स꣣त्रा꣡च्या꣢ । स꣣त्रा꣢ । च्या꣣ । मघ꣡वा꣢न् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । धिया꣢ । श꣡वि꣢꣯ष्ठ । आ । ग꣣मत् ॥१२३३॥
स्वर रहित मन्त्र
उभयꣳ शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥१२३३॥
स्वर रहित पद पाठ
उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । सत्रा । च्या । मघवान् । सोमपीतये । सोम । पीतये । धिया । शविष्ठ । आ । गमत् ॥१२३३॥
सामवेद - मन्त्र संख्या : 1233
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २९० क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्राचार्यविषय उच्यते।
पदार्थः -
(इन्द्रः) विद्यैश्वर्यवान् आचार्यः (नः अर्वाक्) अस्मदभिमुखं भूत्वा (इदम्) एतद् अस्माभिः (श्राव्यमाणम् उभयं वचः) पद्यात्मकं गद्यात्मकं चोभयविधम् अध्यापितं शास्त्रवचनसमूहम् (शृणवत्) शृणुयात्। [शृणोतेर्लेटि रूपम्।] (मघवान्) विद्यादानवान्, (शविष्ठः) विद्यया चरित्रेण च बलवत्तमः स आचार्यः (सत्राच्या) सत्यानुगामिन्या (धिया) बुद्ध्या क्रियया च (सोमपीतये) अस्माकं ज्ञानरसपानाय ब्रह्मानन्दरसपानाय च (आ गमत्) अस्मान् आगच्छेत् ॥१॥
भावार्थः - गुरुभिः प्रेम्णा छात्रा अध्यापनीयाः प्रत्यहमध्यापितश्च पाठ आगामिदिवसे श्रोतव्यो येन छात्रैः स स्मृतो न वेति परीक्षा स्यात्। ते शिक्षितानां योगाङ्गानामपि समये समये परीक्षां कुर्युर्येन छात्राः समाधौ ब्रह्मानन्दप्राप्तियोग्या भवेयुः ॥१॥
टिप्पणीः -
१. ऋ० ८।६१।१, अथ० २०।११३।१, उभयत्र ‘म॒घवा॒ सोम॑पीतये’ इति पाठः। साम० २९०।