Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1236
ऋषिः - निध्रुविः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
प꣡व꣢मान꣣ नि꣡ तो꣢शसे र꣣यि꣡ꣳ सो꣢म श्र꣣वा꣡य्य꣢म् । इ꣡न्दो꣢ समु꣣द्र꣡मा वि꣢꣯श ॥१२३६॥
स्वर सहित पद पाठप꣡व꣢꣯मान । नि । तो꣣शसे । रयि꣢म् । सो꣣म । श्रवा꣡य्य꣢म् । इ꣡न्दो꣢꣯ । स꣣मु꣢द्रम् । स꣣म् । उद्र꣢म् । आ । वि꣣श ॥१२३६॥
स्वर रहित मन्त्र
पवमान नि तोशसे रयिꣳ सोम श्रवाय्यम् । इन्दो समुद्रमा विश ॥१२३६॥
स्वर रहित पद पाठ
पवमान । नि । तोशसे । रयिम् । सोम । श्रवाय्यम् । इन्दो । समुद्रम् । सम् । उद्रम् । आ । विश ॥१२३६॥
सामवेद - मन्त्र संख्या : 1236
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि परमात्मविषयमाह।
पदार्थः -
हे (पवमान) पवित्रताप्रदायक (सोम) रसागार परमात्मन् ! त्वम् (श्रवाय्यम्) कीर्तिजनकम्। [श्रावयतीति श्रवाय्यः। श्रुदक्षिस्पृहिगृहिभ्य आय्यः। उ० ३।९६ इत्यनेन शृणोतेः आय्य प्रत्ययः।] (रयिम्) आध्यात्मिकं भौतिकं चैश्वर्यम् (नितोशसे२) प्रयच्छसि। हे (इन्दो) उपासकानां चन्द्रवदाह्लादक परमेश ! त्वम् (समुद्रम्) जीवात्मरूपं समुद्रम् (आ विश) प्रविश ॥२॥
भावार्थः - यथा चन्द्रः स्वाकर्षणेन समुद्रजलमुन्नयति तथा परमेश्वरश्चुम्बकीयेन स्वाकर्षणेन जीवात्मानमुन्नयति ॥२॥
टिप्पणीः -
१. ऋ० ९।६३।२३, ‘इन्दो’ इत्यत्र ‘प्रि॒यः’ इति पाठः। २. तोशसे, तुश दाने, ददासि—इति वि०। रयिं शत्रूणां धनं नितोशसे अतितरां पीडयसि—इति सा०। निघण्टौ नितोशते इति वधकर्मसु पठितम् (निघं० २।१९)।