Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1237
ऋषिः - निध्रुविः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

अ꣣प꣡घ्नन्प꣢वसे꣣ मृ꣡धः꣢ क्रतुवित्सोम मत्सरः । नुदस्वादेवयुं जनम् ॥१२३७॥

स्वर सहित पद पाठ

अ꣣पघ्नन् । अ꣣प । घ्न꣢न् । प꣣वसे । मृ꣡धः꣢꣯ । क्र꣣तुवि꣢त् । क्र꣣तु । वि꣢त् । सो꣣म । मत्सरः꣢ । नु꣣द꣡स्व꣢ । अ꣡दे꣢꣯वयुम् । अ । दे꣣वयुम् । ज꣡न꣢꣯म् ॥१२३७॥


स्वर रहित मन्त्र

अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । नुदस्वादेवयुं जनम् ॥१२३७॥


स्वर रहित पद पाठ

अपघ्नन् । अप । घ्नन् । पवसे । मृधः । क्रतुवित् । क्रतु । वित् । सोम । मत्सरः । नुदस्व । अदेवयुम् । अ । देवयुम् । जनम् ॥१२३७॥

सामवेद - मन्त्र संख्या : 1237
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (सोम) आनन्दरसागार परमात्मन् विद्यारसागार आचार्य वा ! (क्रतुवित्) क्रतूनां विज्ञानानां कर्मणां च लम्भकः, (मत्सरः) आनन्दप्रदः त्वम् (मृधः) हिंसावृत्तीः (अपघ्नन्) विनाशयन् (पवसे) जनानां विद्यार्थिनां वा अन्तःकरणं पुनासि। त्वम् (अदेवयुम्) अदेवकामम्, दिव्यगुणप्राप्त्यनिच्छुकम् (जनम्) मनुष्यं विद्यार्थिनं वा (नुदस्व) तत्प्राप्त्यर्थं प्रेरय ॥३॥

भावार्थः - यथा परमेश्वरो वेदद्वारेण दिव्यगुणप्राप्तिं सन्दिश्य योगाभ्यासिभ्यो ब्रह्मानन्दं प्रदाय तान् कृतार्थान् करोति तथैव आचार्यश्छात्रान् क्रियात्मकज्ञानसहिता आध्यात्मिकीर्भौतिकीश्च विविधा विद्याः शिक्षयित्वा तेषु दिव्यगुणांश्चोत्पाद्य तान् सुयोग्यान् कुर्यात् ॥३॥

इस भाष्य को एडिट करें
Top