Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1247
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

ए꣡न्द्र꣢ नो गधि प्रिय꣣ स꣡त्रा꣢जिदगोह्य । गि꣣रि꣢꣫र्न वि꣣श्व꣡तः꣢ पृ꣣थुः꣡ पति꣢꣯र्दि꣣वः꣢ ॥१२४७॥

स्वर सहित पद पाठ

आ꣢ । इ꣣न्द्र । नः । गधि । प्रिय । स꣡त्रा꣢꣯जित् । स꣡त्रा꣢꣯ । जि꣣त् । अगोह्य । अ । गोह्य । गिरिः꣢ । न । वि꣣श्व꣡तः꣢ । पृ꣣थुः꣢ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥१२४७॥


स्वर रहित मन्त्र

एन्द्र नो गधि प्रिय सत्राजिदगोह्य । गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥१२४७॥


स्वर रहित पद पाठ

आ । इन्द्र । नः । गधि । प्रिय । सत्राजित् । सत्रा । जित् । अगोह्य । अ । गोह्य । गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥१२४७॥

सामवेद - मन्त्र संख्या : 1247
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (प्रिय) प्रीणयितः, (सत्राजित्) युगपत् सर्वान् शत्रून् जेतः ! [सत्रा सह जयतीति सत्राजित्।] (अगोह्यः) गोहितुमशक्य, सर्वत्र प्रकाशमान (इन्द्र) परमात्मन् ! त्वम् (नः) अस्मान् (आ गधि) आगहि आगच्छ। त्वम् (गिरिः न) मेघ इव। [गिरिः इति मेघनाम। निघं० १।१०।] (सर्वतः) विश्वतः (पृथुः) प्रख्यातः, अपि च (दिवः पतिः) द्योतमानस्य सूर्यस्य जीवात्मनो वा स्वामी असि ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थः - यद्यपि परमेश्वरश्चर्मचक्षुषा न दृश्यते तथापि स सूर्यवत् सर्वत्र प्रकाशितस्तृप्तिप्रदायकः सर्वविजेता सुखादीनां वृष्टिकरणान्मेघवत् प्रसिद्धिं गतः सर्वस्य जडचेतनात्मकस्य जगतोऽधिपतिश्चास्ति ॥१॥

इस भाष्य को एडिट करें
Top