Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1248
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
अ꣣भि꣡ हि स꣢꣯त्य सोमपा उ꣣भे꣢ ब꣣भू꣢थ꣣ रो꣡द꣢सी । इ꣡न्द्रासि꣢꣯ सुन्व꣣तो꣢ वृ꣣धः꣡ पति꣢꣯र्दि꣣वः꣡ ॥१२४८॥
स्वर सहित पद पाठअ꣣भि꣢ । हि । स꣣त्य । सोमपाः । सोम । पाः । उभे꣡इति꣢ । ब꣣भू꣡थ꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । इ꣡न्द्र꣢꣯ । अ꣡सि꣢꣯ । सु꣣न्वतः꣢ । वृ꣣धः꣢ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥१२४८॥
स्वर रहित मन्त्र
अभि हि सत्य सोमपा उभे बभूथ रोदसी । इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥१२४८॥
स्वर रहित पद पाठ
अभि । हि । सत्य । सोमपाः । सोम । पाः । उभेइति । बभूथ । रोदसीइति । इन्द्र । असि । सुन्वतः । वृधः । पतिः । दिवः ॥१२४८॥
सामवेद - मन्त्र संख्या : 1248
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि परमात्मविषयमाह।
पदार्थः -
हे (सत्य) सत्यगुणकर्मस्वभाव, (सोमपाः) शान्तिरक्षक जगदीश्वर ! त्वम् (हि) निश्चयेन (उभे रोदसी) उभे द्यावापृथिव्यौ (अभि बभूथ) तिरस्कृतवानसि। [‘बभूविथ इति प्राप्ते’ बभूथाततन्थजगृभ्मववर्थेति निगमे। अ० ७।२।६४,इतीट्प्रतिषेधो निपात्यते।] हे (इन्द्र) सर्वान्तर्यामिन् ! त्वम् (सुन्वतः) शान्तिस्थापनायज्ञं कुर्वतः (वृधः) वर्धयिता, (दिवः पतिः) तेजस्विनो जनस्य च रक्षकः (असि) विद्यसे ॥२॥
भावार्थः - जगति ये शान्तिस्थापनाय यतन्ते तेषामेव परमेश्वरः सखा भवति ॥२॥
टिप्पणीः -
१. ऋ० ८।९८।५, अथ० २०।६४।२।