Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1249
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
4
त्व꣡ꣳ हि शश्व꣢꣯तीना꣣मि꣡न्द्र꣢ ध꣣र्त्ता꣢ पु꣣रा꣡मसि꣢꣯ । ह꣣न्ता꣢꣫ दस्यो꣣र्म꣡नो꣢र्वृ꣣धः꣡ पति꣢꣯र्दि꣣वः꣢ ॥१२४९॥
स्वर सहित पद पाठत्वम् । हि । श꣡श्व꣢꣯तीनाम् । इ꣡न्द्र꣢꣯ । ध꣣र्त्ता꣢ । पु꣣रा꣢म् । अ꣡सि꣢꣯ । ह꣣न्ता꣢ । द꣡स्योः꣢꣯ । म꣡नोः꣢꣯ । वृ꣡धः꣢꣯ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥१२४९॥
स्वर रहित मन्त्र
त्वꣳ हि शश्वतीनामिन्द्र धर्त्ता पुरामसि । हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥१२४९॥
स्वर रहित पद पाठ
त्वम् । हि । शश्वतीनाम् । इन्द्र । धर्त्ता । पुराम् । असि । हन्ता । दस्योः । मनोः । वृधः । पतिः । दिवः ॥१२४९॥
सामवेद - मन्त्र संख्या : 1249
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ परमेश्वरस्य नरेशस्य च वीरकर्माणि वर्ण्यन्ते।
पदार्थः -
हे (इन्द्र) परमवीर जगदीश्वर राजन् वा ! (त्वं हि) त्वं खलु (शश्वतीनाम्) बह्वीनाम्। [शश्वदिति बहुनाम। निघं० ३।१।] (पुराम्) शत्रुनगरीणाम् (धर्ता) भेत्ता, (दस्योः) हिंसकस्य शत्रोः (हन्ता) विनाशयिता, (मनोः) मननशीलस्य शान्तिप्रियस्य (वृधः) वर्धयिता, (दिवः) तेजस्विनः जनस्य च (पतिः) रक्षकः (असि) भवसि ॥३॥
भावार्थः - यथा जगदीश्वरो दुष्टानां भञ्जकः सज्जनानां च रक्षको भवति तथैव नृपतिनापि भाव्यम् ॥३॥
टिप्पणीः -
१. ऋ० ८।९८।६, अथ० २०।६४।३।