Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1250
ऋषिः - जेता माधुच्छन्दसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
पु꣣रां꣢ भि꣣न्दु꣡र्युवा꣢꣯ क꣣वि꣡रमि꣢꣯तौजा अजायत । इ꣢न्द्रो꣣ वि꣡श्व꣢स्य꣣ क꣡र्म꣢णो ध꣣र्त्ता꣢ व꣣ज्री꣡ पु꣢रुष्टु꣣तः꣢ ॥१२५०॥
स्वर सहित पद पाठपु꣣रा꣢म् । भि꣣न्दुः꣢ । यु꣡वा꣢꣯ । क꣣विः꣢ । अ꣡मि꣢꣯तौजाः । अ꣡मि꣢꣯त । ओ꣣जाः । अजायत । इ꣡न्द्रः꣢꣯ । वि꣡श्व꣢꣯स्य । क꣡र्म꣢꣯णः । ध꣣र्त्ता꣢ । व꣣ज्री꣢ । पु꣣रुष्टुतः꣢ । पु꣣रु । स्तुतः꣢ ॥१२५०॥
स्वर रहित मन्त्र
पुरां भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥१२५०॥
स्वर रहित पद पाठ
पुराम् । भिन्दुः । युवा । कविः । अमितौजाः । अमित । ओजाः । अजायत । इन्द्रः । विश्वस्य । कर्मणः । धर्त्ता । वज्री । पुरुष्टुतः । पुरु । स्तुतः ॥१२५०॥
सामवेद - मन्त्र संख्या : 1250
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ३५९ क्रमाङ्के परमेश्वरनृपतिसेनापतिसूर्यविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।
पदार्थः -
(इन्द्रः) एष देहधारी जीवात्मा (पुराम्) शत्रुनगरीणाम् (भिन्दुः) भेत्ता, (युवा) यौवनसम्पन्नः, (कविः) क्रान्तद्रष्टा, (अमितौजाः) अपरिमितबलः, (विश्वस्य) सर्वस्य (कर्मणः) क्रियाकाण्डस्य (धर्ता) धारणकर्ता, (वज्री) शस्त्रास्त्रपाणिः, (पुरुष्टुतः) बहुस्तुतश्च (अजायत) जातोऽस्ति ॥१॥२
भावार्थः - जीवात्मनि खल्वपूर्वा शक्तिर्निहिता। स्वशक्तिं परिचित्य स महान्ति कर्माणि कर्तुं शक्नोति ॥१॥
टिप्पणीः -
१. ऋ० १।११।४, साम० ३५९। २. ऋग्भाष्ये दयानन्दर्षिमन्त्रमिमं सूर्यसेनापत्योर्विषये व्याख्यातवान्।