Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1258
ऋषिः - शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

ए꣣ष꣡ विश्वा꣢꣯नि꣣ वा꣢र्या꣣ शू꣢रो꣣ य꣡न्नि꣢व꣣ स꣡त्व꣢भिः । प꣡व꣢मानः सिषासति ॥१२५८॥

स्वर सहित पद पाठ

ए꣣षः꣢ । वि꣡श्वा꣢꣯नि । वा꣡र्या꣢꣯ । शू꣡रः꣢꣯ । यन् । इ꣣व । स꣡त्व꣢꣯भिः । प꣡व꣢꣯मानः । सि꣣षासति ॥१२५८॥


स्वर रहित मन्त्र

एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥१२५८॥


स्वर रहित पद पाठ

एषः । विश्वानि । वार्या । शूरः । यन् । इव । सत्वभिः । पवमानः । सिषासति ॥१२५८॥

सामवेद - मन्त्र संख्या : 1258
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
(पवमानः) स्वात्मानं पवित्रीकुर्वन् (एषः) अयम् जीवात्मा (सत्त्वभिः) स्वकीयैः पुरुषार्थैः (विश्वानि) सर्वाणि (वार्या) वार्याणि, वरणीयानि वस्तूनि (सिषासति) संभक्तुं प्राप्तुम् इच्छति। [षण सम्भक्तौ, सन्नन्तं रूपम्।] कथमिव ? (यन् इव) गच्छन् यथा (शूरः) वीरः कश्चिज्जनः (विश्वानि वार्या) सर्वाणि वरणीयानि प्राप्तव्यानि स्थानानि प्राप्नोति, तद्वत् ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थः - मनुष्यः स्वकीयेन पुरुषार्थेन निखिलान्यप्यभीष्टानि प्राप्तुं शक्नोति ॥३॥

इस भाष्य को एडिट करें
Top