Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1261
ऋषिः - शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
ए꣣ष꣢ दे꣣वो꣢ वि꣣पा꣢ कृ꣣तो꣢ऽति꣣ ह्व꣡रा꣢ꣳसि धावति । प꣡व꣢मानो꣣ अ꣡दा꣢भ्यः ॥१२६१॥
स्वर सहित पद पाठएषः꣢ । दे꣣वः꣢ । वि꣣पा꣢ । कृ꣣तः꣢ । अ꣡ति꣢꣯ । ह्व꣡रा꣢꣯ꣳसि । धा꣣वति । प꣡व꣢꣯मानः । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥१२६१॥
स्वर रहित मन्त्र
एष देवो विपा कृतोऽति ह्वराꣳसि धावति । पवमानो अदाभ्यः ॥१२६१॥
स्वर रहित पद पाठ
एषः । देवः । विपा । कृतः । अति । ह्वराꣳसि । धावति । पवमानः । अदाभ्यः । अ । दाभ्यः ॥१२६१॥
सामवेद - मन्त्र संख्या : 1261
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 6
Acknowledgment
विषयः - अथ पुनरपि तमेव जीवात्मविषयमाह।
पदार्थः -
(एषः) अयम् (विपा) मेधाविना विदुषा। [विप इति मेधाविनाम। निघं० ३।१५।] (कृतः) संस्कृतः (पवमानः) पुरुषार्थी। [पवते गतिकर्मा। निघं० २।१४।] अत एव (अदाभ्यः) केनापि पराजेतुमशक्यः (देवः) तेजस्वी जीवात्मा (ह्वरांसि) कुटिलानि कर्माणि, कुटिलान् शत्रून् वा। [ह्वृ कौटिल्ये, औणादिकः असुन् प्रत्ययः।] (अति) अतीत्य (धावति) अग्रे सरति ॥६॥
भावार्थः - विदुषाऽऽचार्येण यदा मनुष्यस्यात्मा संस्क्रियते तदा मनुष्यः सबलो भूत्वा सर्वा अपि बाधाः पराजित्य समाजेऽग्रगण्यो जायते ॥६॥
टिप्पणीः -
१. ऋ० ९।३।२।