Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1301
ऋषिः - पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा देवता - पवमानाध्येता छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
6

पा꣣वमानी꣡र्द꣢धन्तु न इ꣣मं꣢ लो꣣क꣡मथो꣢꣯ अ꣣मु꣢म् । का꣢मा꣣न्त्स꣡म꣢र्धयन्तु नो दे꣣वी꣢र्दे꣣वैः꣢ स꣣मा꣡हृ꣢ताः ॥१३०१

स्वर सहित पद पाठ

पा꣣वमानीः꣢ । द꣣धन्तु । नः । इम꣢म् । लो꣣क꣢म् । अ꣡थ꣢꣯ । उ꣣ । अमु꣢म् । का꣡मा꣢꣯न् । सम् । अ꣣र्धयन्तु । नः । देवीः꣡ । दे꣣वैः꣡ । स꣣मा꣡हृ꣢ताः । स꣣म् । आ꣡हृ꣢꣯ताः ॥१३०१॥


स्वर रहित मन्त्र

पावमानीर्दधन्तु न इमं लोकमथो अमुम् । कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥१३०१


स्वर रहित पद पाठ

पावमानीः । दधन्तु । नः । इमम् । लोकम् । अथ । उ । अमुम् । कामान् । सम् । अर्धयन्तु । नः । देवीः । देवैः । समाहृताः । सम् । आहृताः ॥१३०१॥

सामवेद - मन्त्र संख्या : 1301
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 7; सूक्त » 1; मन्त्र » 4
Acknowledgment

पदार्थः -
(पावमानीः) पवमानदेवताका ऋचः (नः) अस्माकम् (इमं लोकम्) इहलोकम् (अथ उ) अपि च (अमुम्) परलोकम् (दधन्तु) धारयन्तु। [दध धारणे भ्वादिः, व्यत्ययेन परस्मैपदम्।] (देवैः) वेदविद्भिः (समाहृताः) अध्यापिताः ताः (देवीः) देव्यः अर्थप्रकाशिका ऋचः (नः) अस्माकम् (कामान्) मनोरथान् (समर्द्धयन्तु) पूरयन्तु ॥४॥

भावार्थः - वेदाध्ययनेन जनाः स्फूर्तिं सत्प्रेरणां च प्राप्येमं च लोकममुं च लोकं सर्वांश्च कामान् समर्द्धयितुमर्हन्ति ॥४॥

इस भाष्य को एडिट करें
Top