Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1317
ऋषिः - वसुर्भारद्वाजः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

प꣣र्ज꣡न्यः꣢ पि꣣ता꣡ म꣢हि꣣ष꣡स्य꣢ प꣣र्णि꣢नो꣣ ना꣡भा꣢ पृथि꣣व्या꣢ गि꣣रि꣢षु꣣ क्ष꣡यं꣢ दधे । स्व꣡सा꣢र꣣ आ꣡पो꣢ अ꣣भि꣢꣫ गा उ꣣दा꣡स꣢र꣣न्त्सं꣡ ग्राव꣢꣯भिर्वसते वी꣣ते꣡ अ꣢ध्व꣣रे꣢ ॥१३१७॥

स्वर सहित पद पाठ

प꣣र्ज꣡न्यः꣢ । पि꣣ता꣢ । म꣣हिष꣡स्य꣢ । प꣣र्णि꣡नः꣢ । ना꣡भा꣢꣯ । पृ꣣थिव्याः꣢ । गि꣣रि꣡षु꣢ । क्ष꣡य꣢꣯म् । द꣣धे । स्व꣡सा꣢꣯रः । आ꣡पः꣢꣯ । अ꣣भि꣢ । गाः । उ꣣दा꣡स꣢रन् । उ꣡त् । आ꣡स꣢꣯रन् । सम् । ग्रा꣡व꣢꣯भिः । व꣣सते । वीते꣢ । अ꣣ध्वरे꣢ ॥१३१७॥


स्वर रहित मन्त्र

पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ॥१३१७॥


स्वर रहित पद पाठ

पर्जन्यः । पिता । महिषस्य । पर्णिनः । नाभा । पृथिव्याः । गिरिषु । क्षयम् । दधे । स्वसारः । आपः । अभि । गाः । उदासरन् । उत् । आसरन् । सम् । ग्रावभिः । वसते । वीते । अध्वरे ॥१३१७॥

सामवेद - मन्त्र संख्या : 1317
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—सोमौषधिपरः। (महिषस्य) महतः, (पर्णिनः) पर्णवतः अस्य ओषधिराजस्य सोमस्य (पर्जन्यः) मेघः (पिता) जनको वर्तते। एष सोमः (पृथिव्या नाभा) भूमेः केन्द्रस्थलेषु (गिरिषु) पर्वतेषु च (क्षयम्) निवासम्। [क्षि निवासगत्योः। ‘क्षयो निवासे’ अ० ६।१।२०१ इति निवासार्थे आद्युदात्तः। क्षि क्षये इत्यनेन निष्पन्नस्तु अन्तोदात्तः।] (दधे) धारयति। पर्जन्यात् (स्वसारः आपः) स्वसृवत् सहगामिन्यः जलधाराः (गाः अभि) भूप्रदेशान् प्रति (उद् आ सरन्) उपरिष्टाद् आगच्छन्ति। एवम् (अध्वरे) वृष्टियज्ञे (वीते) प्रवृत्ते सति, ताः आपः (गाः) भूमीः (ग्रावभिः) प्राणैः। [प्राणा वै ग्रावाणः। श० १४।२।२।३३।] (सं वसते) समाच्छादयन्ति। [प्रा॒णो अ॒भ्यव॑र्षीद् व॒र्षेण॑ पृथि॒वीं म॒हीम्। अथ० ११।४।५ इति श्रुतेः। वस आच्छादने, अदादिः] ॥ द्वितीयो—जीवात्मपरः। (महिषस्य) महत्त्वशालिनः (पर्णिनः) ज्ञानकर्मरूपपक्षतियुक्तस्य अस्य सोमस्य जीवात्मनः (पिता) देहे जन्मदाता पालकश्च (पर्जन्यः) मेघवत् सुखवृष्टिकरः परमात्मा वर्तते। एष आत्मा (पृथिव्याः) पार्थिवायाः तन्वाः (नाभा) नाभौ केन्द्रभूते हृदये (गिरिषु) पर्वतवदुन्नतेषु मस्तिष्कप्रकोष्ठेषु च (क्षयं) निवासं (दधे) धारयति। (स्वसारः) सुष्ठु देहे न्यस्ताः (आपः) ज्ञानवाहिन्यः तन्तुनाड्यः (गाः अभि) ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च अभिलक्ष्य (उदासरन्) उपरिष्टादागच्छन्ति, अपि च (अध्वरे) ज्ञानयज्ञे कर्मयज्ञे वा (वीते) प्रवृत्ते सति (ग्रावभिः) ग्राह्यविषयैः। [गीर्यन्ते कवलीक्रियन्ते भुज्यन्ते ये ते ग्रावाणः भोग्यविषयाः।] (सं वसते) सं मिलन्ति, येन मनःसहितैर्ज्ञानेन्द्रियैर्ज्ञानग्रहणं मनःसहितैः कर्मेन्द्रियैश्च कर्म संपद्यते ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थः - वृष्ट्या यद् भूमौ सोमाद्योषधयः समुत्पद्यन्ते प्राणश्च वर्षति, देहे च यज्जीवात्मा मनःसहितैर्ज्ञानेन्द्रियैः कर्मेन्द्रियैश्च ज्ञानं गृह्णाति कर्माणि च करोति तत् सर्वं जगदीश्वरस्यैव कर्तृत्वं प्रकटयति ॥२॥

इस भाष्य को एडिट करें
Top