Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1318
ऋषिः - वसुर्भारद्वाजः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
9

क꣣वि꣡र्वे꣢ध꣣स्या꣡ पर्ये꣢꣯षि꣣ मा꣡हि꣢न꣣म꣢त्यो꣣ न꣢ मृ꣣ष्टो꣢ अ꣣भि꣡ वाज꣢꣯मर्षसि । अ꣣पसे꣡ध꣢न्दुरि꣣ता꣡ सो꣢म नो मृड घृ꣣ता꣡ वसा꣢꣯नः꣣ प꣡रि꣢ यासि नि꣣र्णि꣡ज꣢म् ॥१३१८॥

स्वर सहित पद पाठ

क꣣विः꣢ । वे꣣धस्या꣢ । प꣡रि꣢꣯ । ए꣣षि । मा꣡हि꣢꣯नम् । अ꣡त्यः꣢꣯ । न । मृ꣣ष्टः꣢ । अ꣣भि꣢ । वा꣡ज꣢꣯म् । अ꣣र्ष꣡सि । अपसे꣡ध꣢न् । अ꣣प । से꣡ध꣢꣯न् । दु꣣रिता꣢ । दुः꣣ । इता꣢ । सो꣣म । नः । मृड । घृता꣢ । व꣡सा꣢꣯नः । प꣡रि꣢꣯ । या꣣सि । निर्णि꣡ज꣢म् । निः꣣ । नि꣡ज꣢꣯म् ॥१३१८॥


स्वर रहित मन्त्र

कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि । अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् ॥१३१८॥


स्वर रहित पद पाठ

कविः । वेधस्या । परि । एषि । माहिनम् । अत्यः । न । मृष्टः । अभि । वाजम् । अर्षसि । अपसेधन् । अप । सेधन् । दुरिता । दुः । इता । सोम । नः । मृड । घृता । वसानः । परि । यासि । निर्णिजम् । निः । निजम् ॥१३१८॥

सामवेद - मन्त्र संख्या : 1318
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे सोम ! हे शान्तिप्रिय जीवात्मन् ! (कविः) मेधावी त्वम् (वेधस्या) महाकार्यविधानेच्छया। [वेधाः इवाचरति वेधस्यति, ततो ‘वेधस्या’ इति।] (माहिनम्) महान्तम् परमात्मानम्। [माहिनः इति महन्नाम। निघं० ३।३।] (पर्येषि) उपास्व। (मृष्टः) संघर्षणेन स्वच्छीकृतः (अत्यः न) अश्वः इव (मृष्टः) यमनियमादिभिः शोधितः त्वम्, विजेतुम् (वाजम् अभि) देवासुरसंग्रामं प्रति (अर्षसि) गच्छ। हे (सोम) जीवात्मन् ! (दुरिता) दुरितानि दुर्गुणदुर्व्यसनादीनि (अपसेधन्) दूरीकुर्वन् त्वम् (नः) अस्मान् (मृड) सुखय, किञ्च (घृता) घृतानि तेजांसि (वसानः) धारयन् त्वम् (निर्णिजम्) शुद्धं रूपम् (परि यासि) परिगच्छ। [निर्णिक् इति रूपनाम। निघं० ३।७] ॥ सोमौषधिरसपक्षेऽप्यर्थो योजनीयः। सोमौषधिरसः माहिनम् महान्तं द्रोणकलशं परियाति, शोधितश्च सन् वाजं यज्ञं नीयते, पानेन दुरितविचारान् दूरीकृत्य सद्विचारानुत्तेजयति, घृतानि उदकानि च धारयति, तैः सम्मिलतीत्यर्थः ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थः - मनुष्यैः परमात्मोपासनेन, देवासुरसंग्रामे विजयेन, दुरितध्वंसनेन पुण्यकर्मसमर्द्धनेन, तेजोधारणेन च योगक्षेमौ साधनीयौ ॥३॥ अस्मिन् खण्डे परमात्मध्यानेन ब्रह्मानन्दप्राप्तिविषयस्य जीवात्मोद्बोधनस्य प्रसङ्गतश्च सोमौषधिविषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top