Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1330
ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
4
द्वि꣢꣫र्यं पञ्च꣣ स्व꣡य꣢शस꣣ꣳ स꣡खा꣢यो꣣ अ꣡द्रि꣢सꣳहतम् । प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्यं꣢ प्रस्ना꣣प꣡य꣢न्त ऊ꣣र्म꣡यः꣢ ॥१३३०॥
स्वर सहित पद पाठद्विः꣢ । यम् । प꣡ञ्च꣢꣯ । स्व꣡य꣢꣯शसम् । स्व । य꣣शसम् । स꣡खा꣢꣯यः । स । खा꣣यः । अ꣡द्रि꣢सꣳहतम् । अ꣡द्रि꣢꣯ । स꣣ꣳहतम् । प्रिय꣣म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । प्र꣣स्नाप꣡य꣢न्ते । प्र꣣ । स्नाप꣡य꣢न्ते । ऊ꣣र्म꣡यः꣢ ॥१३३०॥
स्वर रहित मन्त्र
द्विर्यं पञ्च स्वयशसꣳ सखायो अद्रिसꣳहतम् । प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ॥१३३०॥
स्वर रहित पद पाठ
द्विः । यम् । पञ्च । स्वयशसम् । स्व । यशसम् । सखायः । स । खायः । अद्रिसꣳहतम् । अद्रि । सꣳहतम् । प्रियम् । इन्द्रस्य । काम्यम् । प्रस्नापयन्ते । प्र । स्नापयन्ते । ऊर्मयः ॥१३३०॥
सामवेद - मन्त्र संख्या : 1330
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनर्गुरुशिष्यविषयमाह।
पदार्थः -
(स्वयशसम्) स्वकीयकीर्तिम्, (अद्रिसंहतम्) पर्वतवद् दृढाङ्गम्, (इन्द्रस्य प्रियम्) कुलपतेः वत्सलम्, (काम्यम्) अन्येषामपि अभिलषणीयम् (यम्) यं विद्यार्थिनम् (द्विः पञ्च) द्विवारं पञ्च, दशेत्यर्थः (सखायः) सहयोगिनो विद्वांसो गुरवः (ऊर्मयः) जलतरङ्गा इव भूत्वा (प्रस्नापयन्ते) ज्ञाननद्यां स्नानं कारयन्ति, स प्रशस्यो भवतीति वाक्यपूर्तिर्विधेया ॥२॥ ऊर्मय इवेति लुप्तोपमालङ्कारः ॥२॥
भावार्थः - चत्वारो वेदाः षड्वेदाङ्गानि चेति दश विद्याः। उपवेदा उपाङ्गानि चात्रैवान्तर्भवन्ति। प्रतिविद्यमेकैको गुरुरिति दश गुरवो भवन्ति। वेदाङ्गैश्च शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षड् मूलविद्या ग्राह्या न तु तत्तत्प्रतिपादका वर्तमानग्रन्थाः, उत्तरवर्तिनां तेषां मनुष्यप्रणीतानां ग्रन्थानां वेदे सङ्केतासम्भवात् ॥२॥
इस भाष्य को एडिट करें