Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1332
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
4
प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢꣯य ॥१३३२॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । सो꣣म । महे꣢ । द꣡क्षा꣢꣯य । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । वा꣣जी꣢ । ध꣡ना꣢꣯य ॥१३३२॥
स्वर रहित मन्त्र
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥१३३२॥
स्वर रहित पद पाठ
पवस्व । सोम । महे । दक्षाय । अश्वः । न । निक्तः । वाजी । धनाय ॥१३३२॥
सामवेद - मन्त्र संख्या : 1332
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४३० क्रमाङ्के परमेश्वरनृपत्योर्विषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।
पदार्थः -
हे (सोम) विद्यारसागार आचार्य ! त्वम्, शिष्यस्य (महे दक्षाय) महते उत्साहाय। [दक्षतिः उत्साहकर्मा। निरु० १।६।] (पवस्व) ज्ञानधारां प्रवाहय, येन स तव शिष्यः (अश्वः न) सूर्यः इव [असौ वा आदित्य एषो अश्वः। श० ७।३।२।१०] (निक्तः) शुद्धः, (वाजी), विद्यावान् वेगवान् कर्मनिष्ठो भूत्वा (धनाय) धनोपार्जनाय योग्यो भवेत् ॥१॥ अत्रोपमालङ्कारः ॥१॥
भावार्थः - इदमपि शिक्षाया एकं प्रयोजनं यच्छिष्यो विद्वान् बलवान् वर्चस्वी शुद्धहृदयश्च भूत्वा धनार्जनक्षमो भवेत् ॥१॥
इस भाष्य को एडिट करें