Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1346
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
6
यु꣣ङ्क्ष्वा꣢꣫ हि के꣣शि꣢ना꣣ ह꣢री꣣ वृ꣡ष꣢णा कक्ष्य꣣प्रा꣢ । अ꣡था꣢ न इन्द्र सोमपा गि꣣रा꣡मुप꣢꣯श्रुतिं चर ॥१३४६॥
स्वर सहित पद पाठयुङ्क्ष्व꣢ । हि । के꣣शि꣡ना꣢ । हरी꣢꣯इ꣡ति꣢ । वृ꣡ष꣢꣯णा । क꣣क्ष्यप्रा꣢ । क꣣क्ष्य । प्रा꣢ । अ꣡थ꣢꣯ । नः꣣ । इन्द्र । सोमपाः । सोम । पाः । गिरा꣢म् । उ꣡प꣢꣯श्रुतिम् । उ꣡प꣢꣯ । श्रु꣣तिम् । चर ॥१३४६॥
स्वर रहित मन्त्र
युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥१३४६॥
स्वर रहित पद पाठ
युङ्क्ष्व । हि । केशिना । हरीइति । वृषणा । कक्ष्यप्रा । कक्ष्य । प्रा । अथ । नः । इन्द्र । सोमपाः । सोम । पाः । गिराम् । उपश्रुतिम् । उप । श्रुतिम् । चर ॥१३४६॥
सामवेद - मन्त्र संख्या : 1346
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ परमेश्वरं प्रार्थयते।
पदार्थः -
हे (सोमपाः) सौम्यगुणानाम् रक्षक (इन्द्र) परमात्मन् ! यथा त्वम् (केशिना) केशिनौ सूर्यरश्मियुक्तौ। [केशी केशा रश्मयस्तैस्तद्वान् भवति। निरु० १२।२५।] (वृषणा) वृषणौ बलवन्तौ, (कक्ष्यप्रा) कक्ष्यप्रौ स्वस्वभ्रमणकक्षामनुधावमानौ। [कक्ष्यां सूर्यपरिभ्रमणमार्गं प्रवेते गच्छतः यौ तौ।] (हरी) परस्पराकर्षणयुक्तौ चन्द्रभूगोलौ परस्परं योजयसि, तथैव (केशिना) जीवात्मप्रकाशयुक्तौ (वृषणा) बलवन्तौ कक्ष्यप्रा स्वस्वविषयकक्षामनुधावमानौ (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (युङ्क्ष्व) परस्परं सहयोगिनौ कुरु। (अथ) एवं च (नः) अस्माकम् (गिराम्) सर्वासां प्रार्थनावाचाम् (उपश्रुतिम्) श्रवणम्, पूर्तिम् (चर) कुरु ॥३॥२ अत्र श्लिष्टो वाचकलुप्तोपमालङ्कारः ॥३॥
भावार्थः - यथा भूलोकचन्द्रलोकौ परस्परं सामञ्जस्येन वर्तमानौ सूर्यं परितो भ्रमतस्तथैव ज्ञानेन्द्रियकर्मेन्द्रिये पारस्परिकसहयोगेन मनुष्यस्य जीवनं सञ्चालयतः ॥३॥ अस्मिन् खण्डेऽध्यात्मविषयस्य राष्ट्रविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालराम-भगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके पञ्चमः प्रपाठकः समाप्तिमगात् ॥
इस भाष्य को एडिट करें