Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1347
ऋषिः - मेधातिथिः काण्वः
देवता - इध्मः समिद्धो वाग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
सु꣡ष꣢मिद्धो न꣣ आ꣡ व꣢ह दे꣣वा꣡ꣳ अ꣢ग्ने ह꣣वि꣡ष्म꣢ते । हो꣡तः꣢ पावक꣣ य꣡क्षि꣢ च ॥१३४७॥
स्वर सहित पद पाठसु꣡ष꣢꣯मिद्धः । सु । स꣣मिद्धः । नः । आ꣢ । व꣣ह । देवा꣢न् । अ꣣ग्ने । हवि꣡ष्म꣢ते । होत꣣रि꣡ति꣢ । पा꣣वक । य꣡क्षि꣢꣯ । च꣣ ॥१३४७॥
स्वर रहित मन्त्र
सुषमिद्धो न आ वह देवाꣳ अग्ने हविष्मते । होतः पावक यक्षि च ॥१३४७॥
स्वर रहित पद पाठ
सुषमिद्धः । सु । समिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्मते । होतरिति । पावक । यक्षि । च ॥१३४७॥
सामवेद - मन्त्र संख्या : 1347
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमात्मानं प्रार्थयते।
पदार्थः -
हे (अग्ने) अग्रनायक तेजस्विन् विश्वेश्वर ! (सुसमिद्धः) अन्तरात्मनि सम्यक् प्रदीपितः त्वम् (नः) अस्मभ्यम् उपासकेभ्यः (हविष्मते) अन्यस्मै आत्मसमर्पकाय च (देवान्) दिव्यगुणान् (आ वह) प्रापय। (होतः) हे सुखप्रदातः ! (पावक) हे पवित्रकर्तः ! त्वम् (यक्षि२ च) अस्माभिः संगच्छस्व च। [यक्षि यज इति निरुक्तम् ६।१३] ॥१॥३
भावार्थः - स्वान्तरात्मनि परमात्माग्निं प्रदीप्य जना दिव्यगुणयुक्ता जायन्ताम् ॥१॥
इस भाष्य को एडिट करें