Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1376
ऋषिः - सार्पराज्ञी देवता - आत्मा सूर्यो वा छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

आ꣡यं गौः पृश्नि꣢꣯रक्रमी꣣द꣡स꣢दन्मा꣣त꣡रं꣢ पु꣣रः꣢ । पि꣣त꣡रं꣢ च प्र꣣य꣡न्त्स्वः꣢ ॥१३७६॥

स्वर सहित पद पाठ

आ꣢ । अ꣣य꣢म् । गौः । पृ꣡श्निः꣢꣯ । अ꣣कमीत् । अ꣡स꣢꣯दत् । मा꣣त꣡र꣢म् । पु꣣रः꣢ । पि꣣त꣡र꣢म् । च꣣ । प्रय꣢न् । प्र꣣ । य꣢न् । स्वऽ३रि꣡ति꣢ ॥१३७६॥


स्वर रहित मन्त्र

आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥१३७६॥


स्वर रहित पद पाठ

आ । अयम् । गौः । पृश्निः । अकमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रयन् । प्र । यन् । स्वऽ३रिति ॥१३७६॥

सामवेद - मन्त्र संख्या : 1376
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
(अयम्) एषः (पृश्निः) प्राष्टवर्णः (गौः) गतिमयः चन्द्रलोकः (आ अक्रमीत्) उदितोऽस्ति, यः (पुरः) पश्चिमतः पूर्वं प्रति (मातरम्) मातृभूतां पृथिवीम् परितः (असदत्) गच्छति। [षद्लृ विशरणगत्यवसादनेषु।] (पितरम्) पितृस्थानीयम् (स्वः च) सूर्यं च (प्रयन्) परिक्राम्यन् भवति ॥१॥२

भावार्थः - चन्द्रो हि पृथिव्याः पृथग्भूतं पिण्डमस्तीति वैज्ञानिका मन्यन्ते। अतः पृथिवी चन्द्रस्य माता। सूर्यस्य प्रभावादेव तत् पिण्डं पृथिव्याः पृथग्भूतमिति सूर्यश्चन्द्रस्य पिता। चन्द्रः पृथिवीं परिक्राम्यन् तया सह सूर्यमपि परिक्रामतीति खगोलशास्त्रविदां निरीक्षणमस्ति ॥१॥

इस भाष्य को एडिट करें
Top