Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1377
ऋषिः - सार्पराज्ञी देवता - आत्मा सूर्यो वा छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

अ꣣न्त꣡श्च꣢रति रोच꣣ना꣢꣫स्य प्रा꣣णा꣡द꣢पान꣣ती꣢ । व्य꣢꣯ख्यन्महि꣣षो꣡ दिव꣢꣯म् ॥१३७७

स्वर सहित पद पाठ

अ꣣न्त꣡रिति꣢ । च꣣रति । रोचना꣢ । अ꣣स्य꣢ । प्रा꣣णा꣢त् । प्र꣣ । आना꣢त् । अ꣣पानती꣢ । अ꣣प । अनती꣢ । वि । अ꣣ख्यत् । महिषः꣢ । दि꣡व꣢꣯म् ॥१३७७॥


स्वर रहित मन्त्र

अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥१३७७


स्वर रहित पद पाठ

अन्तरिति । चरति । रोचना । अस्य । प्राणात् । प्र । आनात् । अपानती । अप । अनती । वि । अख्यत् । महिषः । दिवम् ॥१३७७॥

सामवेद - मन्त्र संख्या : 1377
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(अस्य) प्राणात्मनः सूर्यस्य (रोचना) दीप्तिः प्रभावशक्तिरिति यावत् (प्राणाद् अपानती) प्राणनक्रियोत्तरम् अपानक्रियां कुर्वती (अन्तः) शरीराभ्यन्तरे (चरति) विचरति। (महिषः) महान् प्राणः (दिवम्) देहस्थं मूर्धानमपि (व्यख्यत्) प्रकाशयति ॥२॥२

भावार्थः - यथा बाह्ये सौरजगति सूर्यो ग्रहोपग्रहान् धारयति, तथैव मानवदेहे जीवात्मना सहचरितः प्राणमनोबुद्धिमस्तिष्केन्द्रियादीनि धारयति ॥२॥

इस भाष्य को एडिट करें
Top