Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1378
ऋषिः - सार्पराज्ञी देवता - आत्मा सूर्यो वा छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

त्रि꣣ꣳश꣢꣫द्धाम꣣ वि꣡ रा꣢जति꣣ वा꣡क्प꣢त꣣ङ्गा꣡य꣢ धीयते । प्र꣢ति꣣ व꣢स्तो꣣र꣢ह꣣ द्यु꣡भिः꣢ ॥१३७८॥

स्वर सहित पद पाठ

त्रि꣣ꣳश꣢त् । धा꣡म꣢꣯ । वि । रा꣣जति । वा꣢क् । प꣣तङ्गा꣡य꣢ । धी꣣यते । प्र꣡ति꣢꣯ । व꣡स्तोः꣢꣯ । अ꣡ह꣢꣯ । द्यु꣡भिः꣢꣯ ॥१३७८॥


स्वर रहित मन्त्र

त्रिꣳशद्धाम वि राजति वाक्पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥१३७८॥


स्वर रहित पद पाठ

त्रिꣳशत् । धाम । वि । राजति । वाक् । पतङ्गाय । धीयते । प्रति । वस्तोः । अह । द्युभिः ॥१३७८॥

सामवेद - मन्त्र संख्या : 1378
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
एष प्राणः (त्रिंशद् धाम) त्रिंशत् धामानि, अहोरात्रस्य त्रिंशदपि मुहूर्तानि (विराजति) शरीरे विराजमानो भवति, जाग्रदवस्थायां स्वप्नावस्थायां सुषुप्तावस्थायां चापि सक्रियस्तिष्ठति। [‘ऊर्ध्वः॑ सु॒प्तेषु॑ जागार’ अथ० ११।४।२५ इति श्रुतेः।] अस्मै (पतङ्गाय२) श्वासोच्छ्वासगत्या पक्षिवच्चेष्टते प्राणाय। [प्राणो वै पतङ्गः। कौ० ब्रा० ८।४।] (वाक्) वाणी (धीयते) निरुध्यते, प्राणायामकाले भाषणासम्भवात्। (प्रति वस्तोः) प्रत्यहम् (अह) किल (द्युभिः) दीप्तैः सूर्यकिरणैः, एष प्राणो बलवान् जायते इति वाक्यपूर्तिर्विधेया ॥३॥३

भावार्थः - रात्रिन्दिवं शरीरं धारयन्नेष प्राणः प्राणिनां महदुपकरोति ॥३॥ अस्मिन् खण्डे परमात्मोपासनाया जीवात्मनः प्राणस्य प्रसङ्गतया विद्युतश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top