Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1383
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

अ꣡ग्ने꣢ यु꣣ङ्क्ष्वा꣡ हि ये तवाश्वा꣢꣯सो देव सा꣣ध꣡वः꣢ । अ꣢रं꣣ व꣡ह꣢न्त्या꣣श꣡वः꣢ ॥१३८३॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । यु꣣ङ्क्ष्व꣢ । हि । ये । त꣡व꣢꣯ । अ꣡श्वा꣢꣯सः । दे꣣व । साध꣡वः꣢ । अ꣡र꣢꣯म् । व꣡ह꣢꣯न्ति । आ꣣श꣡वः꣢ ॥१३८३॥


स्वर रहित मन्त्र

अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवः ॥१३८३॥


स्वर रहित पद पाठ

अग्ने । युङ्क्ष्व । हि । ये । तव । अश्वासः । देव । साधवः । अरम् । वहन्ति । आशवः ॥१३८३॥

सामवेद - मन्त्र संख्या : 1383
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (देव) ज्ञानेन प्रकाशमान (अग्ने) देहाधिष्ठातः मदीय अन्तरात्मन् ! (ये तव) ये त्वदीयाः (साधवः) भद्राः, (आशवः) आशुगामिनः, (अश्वासः) मनोबुद्धिप्राणेन्द्रियरूपाः तुरङ्गाः, (अरम्) अलम्, पर्याप्तम् (वहन्ति) देहरथं चालयन्ति, तान् (युङ्क्ष्व हि) कार्ये योजय खलु ॥१॥२

भावार्थः - मनुष्यस्यात्मा यदि सावधानो नास्ति तर्हि तस्य मनइन्द्रियादयोऽश्वाः कुपथगामिनो जायन्ते ॥१॥

इस भाष्य को एडिट करें
Top