Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1436
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
10

त꣡या꣢ पवस्व꣣ धा꣡र꣢या꣣ य꣢या꣣ गा꣡व꣢ इ꣣हा꣢गम꣢꣯न् । ज꣡न्या꣢स꣣ उ꣡प꣢ नो गृ꣣ह꣢म् ॥१४३६॥

स्वर सहित पद पाठ

त꣡या꣢꣯ । प꣣वस्व । धा꣡र꣢꣯या । य꣡या꣢꣯ । गा꣡वः꣢꣯ । इ꣣ह꣢ । आ꣣ग꣡म꣢न् । आ꣢ । ग꣡म꣢꣯न् । ज꣡न्या꣢꣯सः । उ꣡प꣢꣯ । नः꣣ । गृह꣢म् ॥१४३६॥


स्वर रहित मन्त्र

तया पवस्व धारया यया गाव इहागमन् । जन्यास उप नो गृहम् ॥१४३६॥


स्वर रहित पद पाठ

तया । पवस्व । धारया । यया । गावः । इह । आगमन् । आ । गमन् । जन्यासः । उप । नः । गृहम् ॥१४३६॥

सामवेद - मन्त्र संख्या : 1436
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे तेजोधाम परमात्मन् ! त्वम् (तया धारया) तया तेजोधारया (पवस्व) अस्मान् पुनीहि (यया) धारया (इह) अत्र (नः गृहम्) अस्माकं हृदयसदनम् (जन्यासः) उत्तरोत्तरं जन्म गृह्णानाः। [अत्र ‘जनेर्यक्’। उ० ४।११२ इति यक् प्रत्ययः।] (गावः) तेजोरश्मयः (उपागमन्) उपागच्छन्तु ॥२॥

भावार्थः - परमात्मनः सकाशात् प्रस्रवन्ति तेजांसि तत्स्तोतॄन् तेजस्विनः कुर्वन्ति ॥२॥

इस भाष्य को एडिट करें
Top