Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1435
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

प꣡व꣢स्व वृ꣣ष्टि꣢꣫मा सु नो꣣ऽपा꣢मू꣣र्मिं꣢ दि꣣व꣡स्परि꣢꣯ । अ꣣यक्ष्मा꣡ बृ꣢ह꣣ती꣡रिषः꣢꣯ ॥१४३५॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । वृ꣣ष्टि꣢म् । आ । सु । नः꣣ । अपा꣢म् । ऊ꣣र्मि꣢म् । दि꣣वः꣢ । प꣡रि꣢꣯ । अ꣣यक्ष्माः꣢ । अ꣣ । यक्ष्माः꣢ । बृ꣣हतीः꣢ । इ꣡षः꣢꣯ ॥१४३५॥


स्वर रहित मन्त्र

पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि । अयक्ष्मा बृहतीरिषः ॥१४३५॥


स्वर रहित पद पाठ

पवस्व । वृष्टिम् । आ । सु । नः । अपाम् । ऊर्मिम् । दिवः । परि । अयक्ष्माः । अ । यक्ष्माः । बृहतीः । इषः ॥१४३५॥

सामवेद - मन्त्र संख्या : 1435
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे सोम ! हे सर्वान्तर्यामिन् परमेश्वर ! त्वम् (दिवः परि) उच्चात् आत्मलोकात् (नः) अस्मभ्यम् (अपाम् ऊर्मिम्) दिव्यधाराणां तरङ्गरूपाम् (वृष्टिम्) वर्षाम् (सु आ पवस्व)सम्यक् समन्तात् प्रवाहय। किञ्च (अयक्ष्माः) नीरोगाः, वासनादिरहिताः इत्यर्थः (बृहतीः इषः) महतीः आकाङ्क्षाः (आ पवस्व) अस्मासु आस्रावय, जनयेत्यर्थः ॥१॥

भावार्थः - यथा जगदीश्वरोऽन्तरिक्षाद् वृष्टिम् भूमावारोग्यकराण्यन्नानि चोत्पादयति तथैव सोऽस्मास्वानन्दवृष्टिमुत्कृष्टा महत्त्वाकाङ्क्षाश्च जनयेत् ॥१॥

इस भाष्य को एडिट करें
Top