Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1449
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
प꣡व꣢मान सु꣣वी꣡र्य꣢ꣳ र꣣यि꣡ꣳ सो꣢म रिरीहि णः । इ꣢न्द꣣वि꣡न्द्रे꣢ण नो यु꣣जा꣢ ॥१४४९॥
स्वर सहित पद पाठप꣡व꣢꣯मान । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । र꣣यि꣢म् । सो꣣म । रिरीहि । नः । इ꣡न्दो꣢꣯ । इ꣡न्द्रे꣢꣯ण । नः꣣ । युजा꣢ ॥१४४९॥
स्वर रहित मन्त्र
पवमान सुवीर्यꣳ रयिꣳ सोम रिरीहि णः । इन्दविन्द्रेण नो युजा ॥१४४९॥
स्वर रहित पद पाठ
पवमान । सुवीर्यम् । सु । वीर्यम् । रयिम् । सोम । रिरीहि । नः । इन्दो । इन्द्रेण । नः । युजा ॥१४४९॥
सामवेद - मन्त्र संख्या : 1449
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
विषयः - अथ परमात्मानं प्रार्थयते।
पदार्थः -
हे (पवमान) पवित्रतादायक, (इन्दो) रसेन क्लेदक (सोम)आनन्दरसागार जगदीश ! त्वम् (नः युजा) अस्माकं सहायकेन (इन्द्रेण) मनसा [यन्मनः स इन्द्रः। गो० उ० ४।११।] (नः) अस्मभ्यम् (सुवीर्यम्) सवीर्योपेतम् (रयिम्) ऐश्वर्यम् (रिरीहि) प्रापय। [रिणातिः—गतिकर्मा निघं० २।१४।] ॥६॥
भावार्थः - परमात्मजीवात्ममनसां सख्येनैव मानवश्चरमोन्नतिं कर्तुं पारयति ॥६॥
इस भाष्य को एडिट करें