Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1451
ऋषिः - सुकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
न꣢व꣣ यो꣡ न꣢व꣣तिं꣡ पुरो꣢꣯ बि꣣भे꣡द꣢ बा꣣꣬ह्वो꣢꣯जसा । अ꣡हिं꣢ च वृत्र꣣हा꣡व꣢धीत् ॥१४५१॥
स्वर सहित पद पाठन꣡व꣢꣯ । यः । न꣣व꣢तिम् । पु꣡रः꣢꣯ । बि꣣भे꣡द꣢ । बा꣣ह्वो꣢जसा । बा꣣हु꣢ । ओ꣣जसा । अ꣡हि꣢꣯म् । च । वृत्रहा꣢ । वृ꣣त्र । हा꣢ । अ꣣वधीत् ॥१४५१॥
स्वर रहित मन्त्र
नव यो नवतिं पुरो बिभेद बाह्वोजसा । अहिं च वृत्रहावधीत् ॥१४५१॥
स्वर रहित पद पाठ
नव । यः । नवतिम् । पुरः । बिभेद । बाह्वोजसा । बाहु । ओजसा । अहिम् । च । वृत्रहा । वृत्र । हा । अवधीत् ॥१४५१॥
सामवेद - मन्त्र संख्या : 1451
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ नृपतेः सेनापतेर्वा शौर्यं वर्णयति।
पदार्थः -
(यः) यो वीरः (बाह्वोजसा) भुजबलेन (नव नवतिं पुरः) नवतिनवतिशत्रुयोद्धॄणां नव व्यूहान् (बिभेद) भिनत्ति, यः (वृत्रहा) वृत्रहा शत्रुहन्ता वीरः (अहिं च) आहन्तारं शत्रुदलं चापि (अवधीत्) निहन्ति, स एव राजा सेनापतिर्वा भवितुमर्हति ॥२॥
भावार्थः - स एव जनो राजपदे सेनापतिपदे वाऽभिषेच्यो य एकोऽपि सन् बहूनपि शत्रून् पराजेतुं समर्थो भवेत् ॥२॥
इस भाष्य को एडिट करें