Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1456
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
5
इ꣡न्द्र꣣ क्र꣡तुं꣢ न꣣ आ꣡ भ꣢र पि꣣ता꣢ पु꣣त्रे꣢भ्यो꣣ य꣡था꣢ । शि꣡क्षा꣢ णो अ꣣स्मि꣡न्पु꣢रुहूत꣣ या꣡म꣢नि जी꣣वा꣡ ज्योति꣢꣯रशीमहि ॥१४५६॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । क्र꣡तु꣢꣯म् । नः꣣ । आ꣢ । भ꣣र । पिता꣢ । पु꣣त्रे꣡भ्यः꣢ । पु꣣त् । त्रे꣡भ्यः꣢꣯ । य꣡था꣢꣯ । शि꣡क्ष꣢꣯ । नः꣣ । अस्मि꣢न् । पु꣣रुहूत । पुरु । हूत । या꣡म꣢꣯नि । जी꣣वाः꣢ । ज्यो꣡तिः꣢꣯ । अ꣣शीमहि ॥१४५६॥
स्वर रहित मन्त्र
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१४५६॥
स्वर रहित पद पाठ
इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । पुत् । त्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरुहूत । पुरु । हूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥१४५६॥
सामवेद - मन्त्र संख्या : 1456
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २५९ क्रमाङ्के परमात्मानमाचार्यं नृपतिं च सम्बोधिता। अत्र परमात्मानं प्रार्थयते।
पदार्थः -
हे (इन्द्र) विघ्नविहन्तः सर्वविद्य सर्वकारिन् सर्वशक्तिमन् परमात्मन् ! त्वम् (नः) अस्मभ्यम् (क्रतुम्) प्रज्ञां कर्म च (आ भर) आहर, (यथा) येन प्रकारेण (पिता) जनकः (पुत्रेभ्यः) सन्तानेभ्यः क्रतुं प्रज्ञां कर्म च आहरति। हे (पुरुहूत) बहुभिराहूत जगदीश्वर ! त्वम् (अस्मिन् यामनि) एतस्मिन् संसारमार्गे (नः) अस्मान् (शिक्ष) कर्तव्याकर्तव्यं बोधय। (जीवाः) जीवनेनानुप्राणिताः वयम्, त्वत्सकाशात् (ज्योतिः) दिव्यं प्रकाशम् (अशीमहि) प्राप्नुयाम ॥१॥२ अत्रोपमालङ्कारः ॥१॥
भावार्थः - यथा माता पिताऽऽचार्यश्च मनुष्यस्य शिक्षकाः सन्ति तथा परमेश्वरोऽपि। सोऽन्तरात्मं प्रविष्टः सदैव सत्यासत्ये उपदिशति ॥१॥
इस भाष्य को एडिट करें