Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1457
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
6

मा꣢ नो꣣ अ꣡ज्ञा꣢ता वृ꣣ज꣡ना꣢ दुरा꣣ध्यो꣢३꣱मा꣡शि꣢वा꣣सो꣡ऽव꣢ क्रमुः । त्व꣡या꣢ व꣣यं꣢ प्र꣣व꣢तः꣣ श꣡श्व꣢तीर꣣पो꣡ऽति꣢ शूर तरामसि ॥१४५७॥

स्वर सहित पद पाठ

मा꣢ । नः꣢ । अ꣡ज्ञा꣢꣯ताः । अ । ज्ञा꣢ताः । वृज꣡नाः꣢ । दु꣣राध्यः꣢ । दुः꣣ । आध्यः꣢ । मा । अ꣡शि꣢꣯वासः । अ । शि꣣वासः । अ꣡व꣢꣯ । क्र꣣मुः । त्व꣡या꣢ । व꣣य꣢म् । प्र꣣व꣡तः꣢ । श꣡श्व꣢꣯तीः । अ꣣पः꣢ । अ꣡ति꣢꣯ । शू꣣र । तरामसि ॥१४५७॥


स्वर रहित मन्त्र

मा नो अज्ञाता वृजना दुराध्यो३माशिवासोऽव क्रमुः । त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥१४५७॥


स्वर रहित पद पाठ

मा । नः । अज्ञाताः । अ । ज्ञाताः । वृजनाः । दुराध्यः । दुः । आध्यः । मा । अशिवासः । अ । शिवासः । अव । क्रमुः । त्वया । वयम् । प्रवतः । शश्वतीः । अपः । अति । शूर । तरामसि ॥१४५७॥

सामवेद - मन्त्र संख्या : 1457
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (इन्द्र) जगदीश ! (मा) नैव (अज्ञाताः) अपरिचिताः (वृजनाः२) बलवन्तो योद्धारो वा। [‘मध्योदात्तं तु वृजनं वर्तते बलयुद्धयोः’ इति वेङ्कटमाधवः३। पुंसि चायमन्तर्णीतमत्वर्थः। ‘कॄपॄवृजिमन्दिनिधाञः क्युः।’ उ० २।८२ इत्यनेन वृजी वर्जने धातोः क्युः प्रत्ययः।] (दुराध्यः) दुरभिसन्धयः शत्रवः, (मा) नैव च अशिवासः अभ्रद्राः परिचिताः जनाः (नः) अस्मान् (अवक्रमुः) आक्राम्येयुः। [अवपूर्वः क्रमु पादविक्षेपे, लिङ्, ‘बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक्।] हे (शूर) वीर जगदीश्वर ! (त्वया) तव साहाय्येन (प्रवतः) प्रकृष्टाचरणाः। [प्रोपसर्गात् ‘उपसर्गाच्छन्दसि’ धात्वर्थे।’ अ० ५।१।११८ इत्यनेन वतिः प्रत्ययः।] (वयम्) तवोपासकाः (शश्वतीः) बह्वीः (अपः) नदीः, नदीवत् उद्वेल्लतीः बाधाः इत्यर्थः (अति तरामसि) पारयेम ॥२॥४

भावार्थः - यथा शत्रवस्तथैव सम्बन्धिजना अपि कदाचित् पापादिकर्मणि लिम्पन्ति, विघ्नाश्चापि धर्ममार्गे बाधका जायन्ते। परमेश्वराद् बलं प्राप्य तान् सर्वान् वयमुल्लङ्घेमहि ॥२॥

इस भाष्य को एडिट करें
Top