Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1460
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - सरस्वान् छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

ज꣣नी꣢यन्तो꣣ न्व꣡ग्र꣢वः पुत्री꣣य꣡न्तः꣢ सु꣣दा꣡न꣢वः । स꣡र꣢स्वन्तꣳ हवामहे ॥१४६०॥

स्वर सहित पद पाठ

ज꣣नीय꣡न्तः꣢ । नु । अ꣡ग्र꣢꣯वः । पु꣣त्रीय꣡न्तः꣢ । पु꣣त् । त्रीय꣡न्तः꣢ । सु꣣दा꣢न꣢वः । सु꣣ । दा꣡न꣢꣯वः । स꣡र꣢꣯स्वन्तम् । ह꣣वामहे ॥१४६०॥


स्वर रहित मन्त्र

जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तꣳ हवामहे ॥१४६०॥


स्वर रहित पद पाठ

जनीयन्तः । नु । अग्रवः । पुत्रीयन्तः । पुत् । त्रीयन्तः । सुदानवः । सु । दानवः । सरस्वन्तम् । हवामहे ॥१४६०॥

सामवेद - मन्त्र संख्या : 1460
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(अग्रवः) गन्तारः, पुरुषार्थिनः, (जनीयन्तः) जनिर्जाया तामिच्छन्तः, (पुत्रीयन्तः) पुत्रपुत्रीः इच्छन्तः (सुदानवः) सुदानकर्माणः गृहस्थाः वयम् (सरस्वन्तम्) आनन्दरसमयं परमात्मानम् (नु) सद्यः (हवामहे) आह्वयामः। [अग्रवः, अगि गतौ, अङ्गन्ति गच्छन्तीति अग्रवः। बाहुलकादौणादिकः उः प्रत्ययो धातोर्नलोपश्च। सुदानवः ददातीति दानुः ‘दाभाभ्यां नुः।’उ० ३।३२ इति ददातेर्नुः प्रत्ययः] ॥१॥

भावार्थः - ब्रह्मचारिणः स्नातका भूत्वा विदुषीं सच्चरित्रां गुणवतीं कन्यां विवाह्य प्रशस्तं सन्तानमुत्पाद्य पञ्चमहायज्ञादिगृहस्थकर्तव्यान्या- चरन्तः परमात्मानमुपासीरन् ॥१॥

इस भाष्य को एडिट करें
Top