Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1464
ऋषिः - शतं वैखानसाः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

अ꣢ग्न꣣ आ꣡यू꣢ꣳषि पवस꣣ आ꣢ सु꣣वो꣢र्ज꣣मि꣡षं꣢ च नः । आ꣣रे꣡ बा꣢धस्व दु꣣च्छु꣡ना꣢म् ॥१४६४॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । आ꣡यू꣢꣯ꣳषि । प꣣वसे । आ꣢ । सु꣣व । ऊ꣡र्ज꣢꣯म् । इ꣡ष꣢꣯म् । च꣣ । नः । आरे꣢ । बा꣣धस्व । दुच्छुना꣡म्꣢ ॥१४६४॥


स्वर रहित मन्त्र

अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥१४६४॥


स्वर रहित पद पाठ

अग्ने । आयूꣳषि । पवसे । आ । सुव । ऊर्जम् । इषम् । च । नः । आरे । बाधस्व । दुच्छुनाम् ॥१४६४॥

सामवेद - मन्त्र संख्या : 1464
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (अग्ने) चरित्रोन्नायक आचार्यवर ! त्वम्, शिष्याणाम् (आयूंषि) जीवनानि (पवसे) पुनासि। (नः) शिष्येभ्यः अस्मभ्यम् (ऊर्जम्) आत्मबलं चरित्रबलं वा (इषं च) अभीष्टां विद्यां च (आसुव) समन्तात् प्रेरय, प्रदेहीत्यर्थः। (दुच्छुनाम्) दुर्गतिहेतुकाम् अविद्याम् (आरे) दूरे (बाधस्व) अपगमय ॥३॥२

भावार्थः - श्रेष्ठमाचार्यं प्राप्य विद्यार्थिनो पवित्रात्मानो विद्वांसश्च भूत्वा समावर्तनानन्तरं गृहमागत्य राष्ट्रमुन्नयन्तु ॥३॥

इस भाष्य को एडिट करें
Top