Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1465
ऋषिः - यजत आत्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ता꣡ नः꣢ शक्तं꣣ पा꣡र्थि꣢वस्य म꣣हो꣢ रा꣣यो꣢ दि꣣व्य꣡स्य꣢ । म꣡हि꣢ वां क्ष꣣त्रं꣢ दे꣣वे꣡षु꣢ ॥१४६५॥

स्वर सहित पद पाठ

ता꣢ । नः꣣ । शक्तम् । पा꣡र्थि꣢꣯वस्य । म꣣हः꣢ । रा꣣यः꣢ । दि꣣व्य꣡स्य꣢ । म꣡हि꣢꣯ । वा꣣म् । क्षत्र꣢म् । दे꣣वे꣡षु꣢ ॥१४६५॥


स्वर रहित मन्त्र

ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि वां क्षत्रं देवेषु ॥१४६५॥


स्वर रहित पद पाठ

ता । नः । शक्तम् । पार्थिवस्य । महः । रायः । दिव्यस्य । महि । वाम् । क्षत्रम् । देवेषु ॥१४६५॥

सामवेद - मन्त्र संख्या : 1465
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे मित्रावरुणौ ब्राह्मणक्षत्रियौ ! (ता) तौ युवाम् (नः) अस्मान्(पार्थिवस्य) भौतिकस्य (दिव्यस्य) आध्यात्मिकस्य च (महः) महतः (रायः) ऐश्वर्यस्य प्राप्तये (शक्तम्) समर्थं कुरुतम्। [अत्र छान्दसो विकरणस्य लुक्।] (देवेषु) विद्वत्सु (वाम्) युवयोः (महि) महत् (क्षत्रम्) क्षतात् शत्रुजन्यात् प्रहाराद् अविद्यादुर्व्यसनादिदोषाद् वा त्राणसामर्थ्यम् विद्यते इति शेषः ॥१॥२

भावार्थः - यत्र ब्राह्मणक्षत्रियौ समन्वितौ भूत्वा सद्विद्यासद्धर्मादिप्रदानेन शत्रुभ्यो रक्षणेन चोपकुरुतस्तद् राष्ट्रमत्युन्नतं जायते ॥१॥

इस भाष्य को एडिट करें
Top