Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1506
ऋषिः - त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्सः देवता - पवमानः सोमः छन्दः - ऊर्ध्वा बृहती स्वरः - मध्यमः काण्ड नाम -
9

त्वे꣡ सो꣢म प्रथ꣣मा꣢ वृ꣣क्त꣡ब꣢र्हिषो म꣣हे꣡ वाजा꣢꣯य श्र꣡व꣢से꣣ धि꣡यं꣢ दधुः । स꣡ त्वं नो꣢꣯ वीर वी꣣꣬र्या꣢꣯य चोदय ॥१५०६॥

स्वर सहित पद पाठ

त्वे꣡इति꣢ । सो꣣म । प्रथमाः꣢ । वृ꣣क्त꣢ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । महे꣢ । वा꣡जा꣢꣯य । श्र꣡व꣢꣯से । धि꣡य꣢꣯म् । द꣣धुः । सः꣢ । त्वम् । नः꣣ । वीर । वीर्या꣢य । चो꣣दय ॥१५०६॥


स्वर रहित मन्त्र

त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः । स त्वं नो वीर वीर्याय चोदय ॥१५०६॥


स्वर रहित पद पाठ

त्वेइति । सोम । प्रथमाः । वृक्तबर्हिषः । वृक्त । बर्हिषः । महे । वाजाय । श्रवसे । धियम् । दधुः । सः । त्वम् । नः । वीर । वीर्याय । चोदय ॥१५०६॥

सामवेद - मन्त्र संख्या : 1506
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (सोम) जगदुत्पादक शुभगुणकर्मस्वभावप्रेरक सर्वाह्लादक परमात्मन् ! (प्रथमाः) श्रेष्ठाः (वृक्तबर्हिषः) उपासनायज्ञे छिन्नकुशाः आस्तीर्णदर्भासना यजमानाः (महे वाजाय) महते बलाय (श्रवसे) यशसे च (त्वे) त्वयि (धियं दधुः) ध्यानं सम्पादयन्ति। (सः त्वम्) असौ सर्वैः श्रेष्ठजनैर्ध्यातः त्वम् (नः) ध्यानिनः अस्मान् (वीर्याय) वीरकर्मणे (चोदय) प्रेरय ॥१॥

भावार्थः - परमात्मनो ध्यातारो बलिनो भूत्वा शुभानि लोकहितावहानि कर्माणि कुर्वन्तो यशस्विनो जायन्ते ॥१॥

इस भाष्य को एडिट करें
Top