Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1537
ऋषिः - गोतमो राहूगणः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

य꣡जा꣢ नो मि꣣त्रा꣡वरु꣢꣯णा꣣ य꣡जा꣢ दे꣣वा꣢ꣳ ऋ꣣तं꣢ बृ꣣ह꣢त् । अ꣢ग्ने꣣ य꣢क्षि꣣ स्वं꣡ दम꣢꣯म् ॥१५३७॥

स्वर सहित पद पाठ

य꣢ज꣢꣯ । नः꣣ । मित्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । य꣡ज꣢꣯ । दे꣣वा꣢न् । ऋ꣣त꣢म् । बृ꣣ह꣢त् । अ꣡ग्ने꣢꣯ । य꣡क्षि꣢꣯ । स्वम् । द꣡म꣢꣯म् ॥१५३७॥


स्वर रहित मन्त्र

यजा नो मित्रावरुणा यजा देवाꣳ ऋतं बृहत् । अग्ने यक्षि स्वं दमम् ॥१५३७॥


स्वर रहित पद पाठ

यज । नः । मित्रा । मि । त्रा । वरुणा । यज । देवान् । ऋतम् । बृहत् । अग्ने । यक्षि । स्वम् । दमम् ॥१५३७॥

सामवेद - मन्त्र संख्या : 1537
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (अग्ने) जगन्नियन्तः परमेश ! त्वम् (नः) अस्मभ्यम् (मित्रावरुणा) मित्रावरुणौ, मित्रं मैत्रीगुणं वरुणं दोषनिवारकं गुणं च (यज) प्रदेहि। (देवान्) अन्यान् दिव्यान् गुणान् (बृहत् ऋतम्) महत् सत्यञ्च (यज) प्रदेहि। अपि च (स्वं दमम्) स्वकीयं दमनगुणमपि (यक्षि) प्रदेहि ॥३॥२

भावार्थः - यः परमेश्वरः सर्वेषां गुणानामाकरोऽस्ति सोऽस्मभ्यमपि दिव्यान् गुणान् प्रयच्छेत् ॥३॥

इस भाष्य को एडिट करें
Top