Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1550
ऋषिः - उशना काव्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
10

दा꣡शे꣢म꣣ क꣢स्य꣣ म꣡न꣢सा य꣣ज्ञ꣡स्य꣢ सहसो यहो । क꣡दु꣢ वोच इ꣣दं꣡ नमः꣢꣯ ॥१५५०॥

स्वर सहित पद पाठ

दा꣡शे꣢꣯म । क꣡स्य꣢꣯ । म꣡न꣢꣯सा । य꣣ज्ञ꣡स्य꣢ । स꣣हसः । यहो । क꣢त् । उ꣣ । वोचे । इद꣢म् । न꣡मः꣢꣯ ॥१५५०॥


स्वर रहित मन्त्र

दाशेम कस्य मनसा यज्ञस्य सहसो यहो । कदु वोच इदं नमः ॥१५५०॥


स्वर रहित पद पाठ

दाशेम । कस्य । मनसा । यज्ञस्य । सहसः । यहो । कत् । उ । वोचे । इदम् । नमः ॥१५५०॥

सामवेद - मन्त्र संख्या : 1550
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (सहसः यहो) बलस्य पुत्र ! अतिशय बलवन् परमेश ! (कस्य यज्ञस्य मनसा) कस्य यज्ञस्य अभिलाषेण, वयम् त्वाम् (दाशेम) आत्मानं समर्पयेम। (कत् उ) कथं खलु, अहम् (इदं नमः) इमं नमस्कारम् (वोचे)२ त्वां प्रति ब्रूयाम् ? ॥२॥

भावार्थः - अनेके सकामयज्ञा निष्कामयज्ञाश्च प्रचलिताः सन्ति। परमहं तु हे जगदीश्वर त्वदुपासनैकप्रयोजनेन यज्ञेनैव तुभ्यमात्मानं समर्पये, न तु कमपि स्वार्थं मनसि निधाय। कथमहं त्वां नमस्कुर्याम् ? केचित् साष्टाङ्गं प्रणमन्ति, केचिद् बद्धाञ्जलयः प्रणमन्ति, केचिन्मूर्तौ शिरो नत्वा प्रणमन्ति। परमहं तु चित्तमेव त्वयि नमयामि, न शरीराङ्गानि ॥२॥

इस भाष्य को एडिट करें
Top