Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1559
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
4
भ꣣द्रो꣡ नो꣢ अ꣣ग्नि꣡राहु꣢꣯तो भ꣣द्रा꣢ रा꣣तिः꣡ सु꣢भग भ꣣द्रो꣡ अ꣢ध्व꣣रः꣢ । भ꣣द्रा꣢ उ꣣त꣡ प्रश꣢꣯स्तयः ॥१५५९॥
स्वर सहित पद पाठभ꣣द्रः꣢ । नः꣣ । अग्निः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । भद्रा꣢ । रा꣣तिः꣢ । सु꣣भग । सु । भग । भद्रः꣢ । अ꣣ध्वरः꣢ । भ꣣द्राः꣢ । उ꣣त꣢ । प्र꣡श꣢꣯स्तयः । प्र । श꣣स्तयः ॥१५५९॥
स्वर रहित मन्त्र
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥१५५९॥
स्वर रहित पद पाठ
भद्रः । नः । अग्निः । आहुतः । आ । हुतः । भद्रा । रातिः । सुभग । सु । भग । भद्रः । अध्वरः । भद्राः । उत । प्रशस्तयः । प्र । शस्तयः ॥१५५९॥
सामवेद - मन्त्र संख्या : 1559
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १११ क्रमाङ्के यज्ञाग्निविषयेऽतिथिविषये परमात्मविषये च व्याख्याता। अत्र राष्ट्रविषयकं भद्रं प्रार्थ्यते।
पदार्थः -
(आहुतः) प्रदत्तहविष्कः (अग्निः) राष्ट्रियतायाः अग्निः (नः) अस्मभ्यम् (भद्रः) शुभः अस्तु। (रातिः) राष्ट्राय कृता दानक्रिया (भद्रा) शुभा अस्तु। हे (सुभग) हे सौभाग्यवन् राजन् ! (अध्वरः) त्वयाऽस्माभिश्च कृतः राष्ट्रयज्ञः (भद्रः) शुभः अस्तु। (उत) अपि च (प्रशस्तयः) राष्ट्रोन्नत्या प्राप्ताः प्रशंसाः (भद्राः) शुभाः सन्तु ॥१॥२
भावार्थः - सर्वे प्रजाजना नृपत्यमात्यादयो राज्याधिकारिणश्च राष्ट्रभक्ता भूत्वा मातृभूम्यै स्वबलिदानमपि कर्तुं सदा समुद्यता भवेयुः ॥१॥
इस भाष्य को एडिट करें