Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1561
ऋषिः - गोतमो राहूगणः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

अ꣢ग्ने꣣ वा꣡ज꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शा꣢नः सहसो यहो । अ꣣स्मे꣡ दे꣢हि जातवेदो꣣ म꣢हि꣣ श्र꣡वः꣢ ॥१५६१॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । ई꣡शा꣢꣯नः । स꣣हसः । यहो । अस्मे꣡इति꣢ । दे꣣हि । जातवेदः । जात । वेदः । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥१५६१॥


स्वर रहित मन्त्र

अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो महि श्रवः ॥१५६१॥


स्वर रहित पद पाठ

अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । यहो । अस्मेइति । देहि । जातवेदः । जात । वेदः । महि । श्रवः ॥१५६१॥

सामवेद - मन्त्र संख्या : 1561
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (अग्ने) छात्रोन्नायक विद्वन् आचार्यवर ! हे (सहसः यहो) आत्मबलस्य पुत्र, अतिशयेन आत्मबलयुक्त इत्यर्थः। हे (जातवेदः) उत्पन्नानां पदार्थानां ज्ञातः ! (गोमतः वाजस्य) वेदवाग्युक्तस्य ऐश्वर्यस्य (ईशानः) अधीश्वरः त्वम् (अस्मे) अस्मभ्यम् (महिश्रवः) महत् शास्त्रज्ञानं तज्जन्यं यशश्च (देहि) प्रयच्छ। [श्रूयते इति श्रवः शास्त्रं यशो वा] ॥१॥२

भावार्थः - आचार्यसकाशाद् विविधानां विद्यानां ज्ञानं प्राप्य शिष्या विद्वांसः कीर्तिमन्तश्च भवेयुः ॥१॥

इस भाष्य को एडिट करें
Top