Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1599
ऋषिः - शुनःशेप आजीगर्तिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
10

अ꣣य꣡मु꣢ ते꣣ स꣡म꣢तसि क꣣पो꣡त꣢ इव गर्भ꣣धि꣢म् । व꣢च꣣स्त꣡च्चि꣢न्न ओहसे ॥१५९९॥

स्वर सहित पद पाठ

अ꣣य꣢म् । उ꣣ । ते । स꣡म् । अ꣣तसि । कपो꣡तः꣢ । इ꣣व । गर्भधि꣢म् । ग꣣र्भ । धि꣢म् । व꣡चः꣢꣯ । तत् । चि꣣त् । नः । ओहसे ॥१५९९॥


स्वर रहित मन्त्र

अयमु ते समतसि कपोत इव गर्भधिम् । वचस्तच्चिन्न ओहसे ॥१५९९॥


स्वर रहित पद पाठ

अयम् । उ । ते । सम् । अतसि । कपोतः । इव । गर्भधिम् । गर्भ । धिम् । वचः । तत् । चित् । नः । ओहसे ॥१५९९॥

सामवेद - मन्त्र संख्या : 1599
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थः -
हे उपासक ! (अयम् उ) अयमिन्द्रः परमेश्वरः किल (ते) तवैव वर्तते, यं त्वम् (समतसि) सम्यक् प्राप्नोषि। कथमिव ? (कपोतः इव) पारावतो यथा (गर्भधिम्) गर्भरूपाणाम् अल्पवयस्कानां शिशूनां धारकं स्वावासभूतं नीडं प्राप्नोति तद्वत्। (तत् चित्) तत् खलु (नः) अस्माकम् (वचः) वचनम्, हे उपासक ! त्वम् (ओहसे) वितर्कय, विचारय। [ऊह वितर्के, भ्वादिः। लेटि रूपम्] ॥१॥२ अत्रोपमालङ्कारः ॥१॥

भावार्थः - परमेश्वरेण सहान्तरङ्गं सम्बन्धं संस्थाप्योपासकेन परमेश्वरगुणान् स्वात्मानि धारयितुं प्रयतनीयम् ॥१॥

इस भाष्य को एडिट करें
Top