Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1609
ऋषिः - वालखिल्यः (श्रुष्टिगुः काण्वः) देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
5

य꣢स्या꣣यं꣢꣫ विश्व꣣ आ꣢र्यो꣣ दा꣡सः꣢ शेवधि꣣पा꣢ अ꣣रिः꣢ । ति꣣र꣡श्चि꣢द꣣र्ये꣢ रु꣣श꣢मे꣣ प꣡वी꣢रवि꣣ तु꣡भ्येत्सो अ꣢꣯ज्यते र꣣यिः꣢ ॥१६०९॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । अ꣣य꣢म् । वि꣡श्वः꣢꣯ । आ꣡र्यः꣢꣯ । दा꣡सः꣢꣯ । शे꣣वधिपाः꣢ । शे꣣वधि । पाः꣢ । अ꣡रिः꣢꣯ । ति꣣रः꣢ । चि꣣त् । अर्ये꣢ । रु꣣श꣡मे꣢ । प꣡वी꣢꣯रवि । तु꣡भ्य꣢꣯ । इत् । सः । अ꣣ज्यते । रयिः꣢ ॥१६०९॥


स्वर रहित मन्त्र

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥१६०९॥


स्वर रहित पद पाठ

यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिपाः । शेवधि । पाः । अरिः । तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥१६०९॥

सामवेद - मन्त्र संख्या : 1609
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
(यस्य) यस्य तव इन्द्रस्य परमात्मनः (अयम्) एष प्रत्यक्षं दृश्यमानः (विश्वः) सम्पूर्णः संसारो विद्यते, यः त्वम् (आर्यः) श्रेष्ठः, (दासः) दुष्टानामुपक्षयिता, (शेवधिपाः) निधिपाः। [निधिः शेवधिरिति यास्कः। निरु० २।४।] (अरिः) ईश्वरश्च वर्तसे। [अरिः ईश्वरः। निरु० ५।२।] (यश्च त्वम्) (अर्ये) स्वामिनि, जीवनाधारे पवने इत्यर्थः, (रुशमे) रुचमे, रोचिष्मति आदित्ये। [रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः। निरु० ६।१३।] (पवीरवि) विद्युन्मति पर्जन्ये च। [पवीरं विद्युद्वज्रं वाति प्राप्नोति तस्मिन्।] (तिरः चित्) प्राप्तः एव तिष्ठसि। [तिरः सतः इति प्राप्तस्य। निरु० ३।२०।] एतादृशाय (तुभ्य इत्) तुभ्यमेव (सः) जगति सर्वत्र विकीर्णः (रयिः) धनम् (अज्यते) समर्प्यते [तुभ्यम् इत्यस्य मकारलोपश्छान्दसः।] ॥१॥२

भावार्थः - विश्वसम्राट् श्रेष्ठः सज्जनरक्षको दुष्टानां दलयिता भूगर्भे निहितानां निधीनां रक्षकः सर्वकर्मक्षमः सर्वान्तर्यामी यः परमेश्वरोऽस्ति तस्यैव सर्वं धनमिति हेतोः तदर्पणबुद्ध्या तत् सेवनीयम् ॥१॥

इस भाष्य को एडिट करें
Top