Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1613
ऋषिः - पर्वतनारदौ
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
6
स꣡ने꣢मि꣣ त्व꣢म꣣स्म꣡दा अदे꣢꣯वं꣣ कं꣡ चि꣢द꣣त्रि꣡ण꣢म् । सा꣣ह्वा꣡ꣳ इ꣢न्दो꣣ प꣢रि꣣ बा꣢धो꣣ अ꣡प꣢ द्व꣣यु꣢म् ॥१६१३॥
स्वर सहित पद पाठस꣡ने꣢꣯मि । त्वम् । अ꣣स्म꣢त् । आ । अ꣡दे꣢꣯वम् । अ । दे꣣वम् । क꣢म् । चि꣣त् । अत्रि꣡ण꣢म् । सा꣣ह्वा꣢न् । इ꣣न्दो । प꣡रि꣢꣯ । बा꣡धः꣢꣯ । अ꣡प꣢꣯ । द्व꣣यु꣢म् ॥१६१३॥
स्वर रहित मन्त्र
सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् । साह्वाꣳ इन्दो परि बाधो अप द्वयुम् ॥१६१३॥
स्वर रहित पद पाठ
सनेमि । त्वम् । अस्मत् । आ । अदेवम् । अ । देवम् । कम् । चित् । अत्रिणम् । साह्वान् । इन्दो । परि । बाधः । अप । द्वयुम् ॥१६१३॥
सामवेद - मन्त्र संख्या : 1613
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि जीवात्मनः परमात्मनश्च विषयमाह।
पदार्थः -
हे (इन्दो) तेजस्विन् जीवात्मन् परमात्मन् वा ! (त्वम्) शक्तिशाली त्वम् (सनेमि) पुराणं सख्यम्। [सनेमि इति पुराणनाम। निघं० ३।२७।] (अस्मत्) अस्मासु। [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (आ) आनय।(अदेवम्) अदातारम् असहायकम् (कं चित्) कमपि(अत्रिणम्) भक्षकं पापदुर्व्यसनादिकं दुर्जनं वा (अप) अपगमय। (साह्वान्) शत्रूणां पराजेता त्वम् (बाधः) बाधकान्(परि) परि जहि, (द्वयुम्) द्वयवन्तं सत्यानृतोभययुक्तं, परोक्षमन्यत्, प्रत्यक्षमन्यत्, मनस्यन्यद् वचस्यन्यद् इति द्विविधाचरणोपेतं छद्मव्यवहारिणं च जनम् (अप) अपगमय ॥३॥
भावार्थः - जीवात्मानं प्रोत्साह्य परमात्मानं च समुपास्य सर्वे जना दुष्टान् छद्माचारिणश्च दूरीकृत्य ससङ्गतिं विधाय स्वात्मानं समाजं चोन्नयन्तु ॥३॥
इस भाष्य को एडिट करें